सामग्री पर जाएँ

भारतीमहमाश्रये...

विकिसूक्तिः तः

भारतीमहमाश्रये...


   
भारतीमहमाश्रये
जनभारतीमहमाश्रये ।

भाष्यकारैरर्चिताम्
शास्त्रकारैः चर्चिताम् ।
सूत्रकारैः सूत्रिताम्
वेदवाक्यैः शोभिताम् ॥

सुसामगानैः कीर्तितां
भासादिभिः पूजिताम् ।
ज्ञानकुसुममालिकां
विज्ञानगन्धाघ्रापिताम् ॥

चतुष्षष्टिकलायुतां
चतुर्वेदसमाहिताम् ।
भारतैक्यसाधिकां
सामरस्यप्रबोधिकाम् ॥


- लक्ष्मीनारायणः, भुवनकोटे


"https://sa.wikiquote.org/w/index.php?title=भारतीमहमाश्रये...&oldid=18298" इत्यस्माद् प्रतिप्राप्तम्