मज्जनोन्मज्जनन्यायः
नेविगेशन पर जाएँ
खोज पर जाएँ
तरणे अकुशलः जलप्रवाहे पतितः चेत् सः कदाचित् उन्मज्जति कदाचित् च निम्मजति । तस्य स्वशरीरस्थितेः उपरि नियन्त्रणं न भवति तथा संसारसमुद्रे पतितः परमेश्वरकृपां यावत्पर्यन्तं न लभते तावत् संसारे उन्मज्जति निमज्जति च इति भावः ।
यथा – अपारसंसारसमुद्रमध्ये निमज्जतो मे शरणं किमस्ति ।
गुरो कृपालो कृपया वदैतद् विश्वेशपादाम्बुजदीर्घनौका ॥