सामग्री पर जाएँ

मम देशो भारतम्...

विकिसूक्तिः तः

मम देशो भारतम्...


मम देशो भारतं
मम भाषा संस्कृतं
मम देशो भारतं
मम भाषा संस्कृतम् ।।

जन्मभूमिरस्माकं भारतं भारतं
जननी नो वाङ्मयस्य संस्कृतं संस्कृतम् ।
अनाद्यनन्तविश्वविदितशौर्यधैर्यकीर्तिकलित-
भारतीया वयं, भारतीया वयं, भारतीया वयम् ।।

पुण्यभूमिरस्माकं भारतं भारतं
जननी नस्सर्वधर्मसंस्कृता संस्कृता ।
हिन्दु-क्रिस्त-सिक्ख-मुस्लिं-जातिमतविभागरहित-
भारतीया वयं, भारतीया वयं, भारतीया वयम् ।।

जन्मभूमिरस्माकं भारतं भारतं
सर्वजनसमैक्यभावबन्धुरं भारतम् ।
सत्य-धर्म-स्नेह-शान्ति-विश्वबन्धुभावभरित-
भारतीया वयं, भारतीया वयं, भारतीया वयम् ।।


- डा. चल्ला लक्ष्मीनारायणशर्मा


"https://sa.wikiquote.org/w/index.php?title=मम_देशो_भारतम्...&oldid=18334" इत्यस्माद् प्रतिप्राप्तम्