मृगतृष्णान्यायः

विकिसूक्तिः तः

मृगतृष्णा नाम हरिण्याः तृष्णा पिपासा इति यावत् । पिपासिता हरिणी मृगजलं प्रति धावति परन्तु मृगजलमिति केवलं भ्रमः । वेदान्तशास्त्रानुसारम् इदं जगत् मृगजलवत् मिथ्या इति सिद्धान्तः । <poem> यथा- रे चित्त चिन्तय चिरं चरणौ मुरारेः पारं गमिष्यसि यतो भवसागरस्य । पुत्रः कलत्रमितरे सुहृदः सहायाः सर्वे विलोकय सखे मृगतृष्णिकावत् ॥ (सा. ४४२)

"https://sa.wikiquote.org/w/index.php?title=मृगतृष्णान्यायः&oldid=10796" इत्यस्माद् प्रतिप्राप्तम्