यदेव विद्यया करोति...

विकिसूक्तिः तः

यदेव विद्यया करोति, श्रद्धया, उपनिषदा, तदेव वीर्यवत्तरं भवति । - छान्दोग्योपनिषत् १-१-१०

यत् कर्म विद्यया श्रद्धया उपनिषदा च क्रियते तद् वीर्यवत्तरं भवति ।

अधिकृतः पुरुषः शास्त्रीयकर्माणि यथाविधि अनुतिष्ठति चेत् अनुरूपाणि फलानि तस्य नूनं भवन्त्येव ।
कर्मणां फलानि नियतानि भवन्त्येव । अपि तु तान्येव कर्माणि श्रद्धया कृतानि चेत् उत्तमफलान्येव ददति ॥

शास्त्रीयाणि कर्माणि उपासनसहितानि क्रियन्ते चेत् तदा इतोऽपि अधिकानि फलानि प्राप्यन्ते एव ।
तास्ता देवताः एकाग्रतया ध्यायन् भक्त्या भावयन् कर्माणि कुरुते चेत् तदा तेषां कर्मणां विशेषफलानि भवन्ति ॥

उपनिषदा युक्तानि चेत् तदा अत्यन्तोत्तमान्येव फलानि भवन्ति । अत्र ‘उपनिषत्’ इति ‘एकाग्रता’ इत्यर्थः ।
सर्वथा श्रद्धाभावनाएकाग्रताभिः कर्माणि क्रियन्ते चेत् उत्तमानि अधिकानि फलानि भवन्ति इत्यर्थः ॥

"https://sa.wikiquote.org/w/index.php?title=यदेव_विद्यया_करोति...&oldid=16380" इत्यस्माद् प्रतिप्राप्तम्