सामग्री पर जाएँ

योध हे ! युध्यताम् ...

विकिसूक्तिः तः

योध हे ! युध्यताम् ...


योध हे ! संस्कृतार्थमर्पणेन युध्यताम् ।
ध्येयमार्गकण्टकेषु सङ्कटेषु गच्छता ॥

संस्कृतेन पाठनञ्च भाषणं भवेद्यदा
सर्वगामि सर्ववर्ति संस्कृतं भवेत्तदा
ज्ञानदायि शक्तिदायि संस्कृतं हि सेव्यताम् ॥

ग्रामनगरकाननेषु सर्वलोकजीवने
प्रान्तजातिवर्गलिङ्गभेदरहितवर्तने
तुष्टिरस्तु पुष्टिरस्तु स्नेहगीश्च वर्धताम् ॥

राष्ट्रयज्ञपूतमस्तु तावकीनजीवनम्
निस्स्पृहं च कार्यमस्तु संस्कृतस्य सेवनम्
धर्मनिष्ठ ! कर्मनिष्ठ ! ध्येयमन्त्र उच्यताम् ॥

देशधर्मरक्षणाय शास्त्रशस्त्रधारिणा
संस्कृतस्य शिक्षणाय पूर्णयत्नकारिणा
अर्पणेन जीवनस्य धन्यतानुभूयताम् ॥


- चमूकृष्णशास्त्री


"https://sa.wikiquote.org/w/index.php?title=योध_हे_!_युध्यताम्_...&oldid=18322" इत्यस्माद् प्रतिप्राप्तम्