रज्जुसर्पन्यायः

विकिसूक्तिः तः

अन्धकारादिकारणैः रज्जौ सर्पस्य आरोपं कृत्वा सर्पभ्रमम् आप्नुवन्ति बहवः । रज्जुमेव सर्पं मत्वा भयभीताः भवन्ति । अद्वैतदर्शने अस्य अनेकवारं प्रयोगः क्रियते । रज्जौ सर्पः इव चैतन्यात्मके ब्राह्मणि जगत् केवलम् आरोप्यते इति भावः । एतम् एव भ्रम इति, अध्यास इति, विवर्त इति अद्वैतवेदान्ते उल्लिखन्ति । “अवस्थान्तरं तु विवर्तो रज्जुसर्पवत्” इति प्रसिद्धम् उदाहरणाम् । रज्जौ सर्वभ्रम इति प्रसिद्धम् उदाहरणम् । बापटशास्त्रिणां विवरणं तावत् एवम् अस्तिः निरवयवस्य आनन्दत्मकस्य ब्रह्मणः सावयवस्य जगतः आरम्भो वा परिणामो वा न संभवति । यथा निरंशस्य निर्विकारस्य कूटस्थस्य च आकाशस्य नीलतलत्वादिभ्रमः तथा निरंशस्य निर्विकारस्य कूटस्थस्य च आकाशस्य नीलतलत्वादिभ्रमः तथा निरंशस्य ब्रह्मणः स्थले सावयवजगतः भ्रमः संभवति । अयमेव अद्वैतिनां विवर्तवादः ।( विवर्तः नाम अन्यथाभानम् । अतत्त्वतः अन्यथाज्ञानाम् इति यावत् । परिणामः नाम पूर्वधर्मपरित्यागे धर्मान्तरग्रहणम् ।)

"https://sa.wikiquote.org/w/index.php?title=रज्जुसर्पन्यायः&oldid=10988" इत्यस्माद् प्रतिप्राप्तम्