रामायणसूक्तयः (मातापितरौ)

विकिसूक्तिः तः

१. अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते ।

स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ (अयोध्याकाण्डः ३०/३३)

२. पिता हि प्रभुरस्माकं दैवतं परमं च सः ।

यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ (बालकाण्डः ३२/२२)

३. मातरं पितरं विप्रमाचार्यं चावमन्यते ।

स पश्यति फलं तस्य प्रेतराजवशं गतः ॥ (उत्तरकाण्डः १५/२१)

४. यतो मूलं नरः पश्येत् प्रादुर्भावमिहात्मनः ।

कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ॥ (अयोध्याकाण्डः १८/१६)

५. यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।

न सुप्रतिकरं तत् तु मात्रा पित्रा च यत्कृतम् ॥
यथाशक्तिप्रदानेन स्वापनोच्छादनेन च ।
नित्यं च प्रियवादेन तथा संवर्धनेन च ॥ (अयोध्याकाण्डः १११/९-१०)

६. यावत् पितरि धर्मज्ञ गौरवं लोकसत्कृते ।

तावद् धर्मकृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ (अयोध्याकाण्डः १०१/२१)

७. सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।

प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ (अयोध्याकाण्डः ११८/३५)