रामायणसूक्तयः (राज्ये अराजकतया हानिः)

विकिसूक्तिः तः

१. अराजके धनं नास्ति नास्ति भार्याप्यराजके । (अयोध्याकाण्डः ६७/११)

२. नाराजके जनपदे धनवन्तः सुरक्षिताः ।

शेरते वितद्वाराः कृषिगोरक्षजीविनः ॥ (अयोध्याकाण्डः ६७/१८)

३. नाराजके जनपदे स्वकं भवति कस्यचित् ।

मत्स्या इव जना नित्यं भक्षयन्ति परस्परम् ॥ (अयोध्याकाण्डः ६७/३१)

४. नाराजके पितुः पुत्रो भार्या वा वर्तते वशे । (अयोध्याकाण्डः ६७/१०)

५. यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम् ।

अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ (अयोध्याकाण्डः ६७/२९)