रामायणसूक्तयः (शरणागतिः)

विकिसूक्तिः तः

१. एवं दोषो महानत्र प्रपन्नानामरक्षणे ।

अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ॥ (युद्धकाण्डः १८/३१)

२. बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् ।

न हन्यादानृशंस्यार्थमपि शत्रुं परन्तप ॥ (युद्धकाण्डः १८/२७)

३. विनष्टः पश्यतस्तस्य रक्षिणः शरणं गतः ।

आनाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ॥ (युद्धकाण्डः १८/३०)