सामग्री पर जाएँ

राष्ट्रसेवनकार्यमेतद्...

विकिसूक्तिः तः

राष्ट्रसेवनकार्यमेतद्...


राष्ट्रसेवनकार्यमेतद्
देवपूजनकार्यमेव
संस्कृताय हि कार्यकरणं
नित्यजीवनभागभूतम् ।।

शास्त्ररक्षणशिक्षणार्थं वेदवाङ्मयबोधनार्थम्
दिव्यसंस्कृतिपोषणार्थं भव्यभारतवैभवार्थम्
संस्कृतस्य तु सेवकोऽहं जीवनार्पणदीक्षितोऽहम् ।।१।।

लोकसङ्ग्रहपुण्यकार्यं साधयेयं कठिनतपसा
सर्वजातिषु सामरस्यं कारयेयं स्नेहवचसा
सकलशक्तिं संस्कृतार्थं योजयेयं पूर्णमनसा ।।२।।

लोकचेतसि धर्मरागं स्वाभिमानं देशवासिषु
आनयेयं सङ्घभावं प्रेमभावं कार्यकर्तृषु
वर्धयेयं सहजस्नेहं कार्यपद्धतिमाश्रयेयम् ।।३।।

विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय
प्रतिपदं ननु चिन्तयेयं संस्कृतोन्नतिसाधनाय
क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय ।।४।।


-चमूकृष्णशास्त्री