सामग्री पर जाएँ

वन्दे भारतधरणीम्...

विकिसूक्तिः तः


वन्दे भारतधरणीम्...


वन्दे भारतधरणीम्
अभिवन्दे पावनचरिताम्
अमलामतुलां सुकृतिभिराप्यां
वन्दे भारतधरणीम् ।।

जातौ वर्णे वेषे भूषे सत्यपि भेदे बहुधा
भारतमातरि भक्तिरभिन्ना ऐक्ये शक्तिरखण्डा ।
नद्यः शतशो वहन्ति विविधा गम्यो जलधिस्तासाम्
स्याच्चेदपि नो विविधा वृत्तिर्निष्ठा मातरि सुदृढा ।। १ ।।

विष्णुशिवाद्याः पूज्या बहवस्त्वेको जगदधिदेवः
जना अनन्ता गुणा विभिन्नाः समरसभावस्त्वेकः ।
वायुरभिन्नो वारि न भिन्नं लक्ष्यं वोऽस्ति समानम्
रक्तमभिन्नं तत्त्वमभिन्नं चित्ते लसति किलैक्यम् ।। २ ।।

विलसति भारतजननी हृदये सेव्यौ तस्याश्चरणौ
शक्तिसम्भृतः पुष्टः कायस्तस्या एव हि कृपया ।
कृपाकटाक्षैस्सुतानिहास्मान् सैषा तनोति पूतान्
तस्याश्चरणौ चिरं स्मरन्तो वयं भवामो धन्याः ।। ३ ।।


- जनार्दनहेगडे


"https://sa.wikiquote.org/w/index.php?title=वन्दे_भारतधरणीम्...&oldid=18304" इत्यस्माद् प्रतिप्राप्तम्