विकसिष्यति यदि भारतभूमिः...
दिखावट
विकसिष्यति यदि भारतभूमिः...
विकसिष्यति यदि भारतभूमिः
विकसेदखिलं भुवनम्
विकसेन्मनुकुलमखिलम् ।।
ऋषिमुनिगुरुवरमुख्यैर्यत्र हि
निष्कामं तप आचरितम्
निशितं सन्ततशास्त्राध्ययनं
फलनिरपेक्षं निर्हेतु ऽऽ ।
लोकानुग्रहदृष्टिर्यत्र हि
राष्ट्रहितैषिभिरुदबोधि
वृद्धिं यास्यति सा भूमिर्यदि
किं न हि विकसेत्सकलम् ।। १ ।।
विश्वकुटुम्बं सकलजनैक्यं
यत्र हि जीवितलक्ष्यम्
विश्वजनीना लौकिकदृष्टिः
विदुषां चिन्तनधारा ।
मनुकुलवृद्धिर्जीवनविषयो
नित्यं यत्र जनानाम्
सैषा पावनभारतधरणी
किं न हि वन्द्या जगतम् ।। २ ।।
- जनार्दनहेगडे