षोडशिग्रहणाग्रहणन्यायः

विकिसूक्तिः तः

यज्ञसंदर्भे षोडशिनामकस्य पात्रविशॆषस्य ग्रहणं करणीयं वा न वा इति प्रश्ने जाते परस्परविरुद्धं दृश्यते । अतिरात्रे षोडशिनं गृह्णाति अतिरात्रे षोडशिनं न गृहणीयात् इति विधिः निषेधः च अत्र दृश्येते । एवं परस्परविरुद्धांशद्वये प्राप्ते पर्युदासेन एकस्य त्यागः करणीयः । शबराचार्याणां मते प्राप्तिपूर्वो हि प्रतिषेधो भवति इति विकल्पग्रहणं करणीयम् । अष्टविधदोषग्रस्ततया सः अपि न ग्राह्यः इति । एवं विकल्पः अनेन बोध्यते ।