सामग्री पर जाएँ

संस्कृतचित्ताः भारतभक्ताः...

विकिसूक्तिः तः

संस्कृतचित्ताः भारतभक्ताः...


संस्कृतचित्ता भारतभक्ता राष्ट्रनवोदयकाङ्क्षिणः ।
सुदृढमनस्का भासुरचरिता राष्ट्रं जागरयाम वयम् ।।

मातृहिताय समग्रसमर्पितपुण्यधनानां राष्ट्रमिदम्
सत्यविनिष्ठितकर्मरतानां धर्मपराणां भूमिरियम् ।
विश्वहितं मम जीवनसुखमिति कलितवतां ननु देशोऽयम्
इमामनन्तां नयाम सुहृदो जवेन शाश्वतपरमपदम् ।। १॥

सर्वे शान्तिमवाप्नुयुरिति नः पूर्वजचिन्तनमतिशुभदम्
स्नेहपुरस्सरजीवनमनिशं स्यादिति तेषामभिलषितम् ।
वयमपि यत्नं विदध्महे निजपूर्वजवाञ्छितपरिपूर्त्यै
तदेकमस्मज्जीवनलक्ष्यं मन्येमहि वयमनवरतम् ।। २ ।।

भवतु हि कण्टकमयमयनं नो स्यादायतनं सुदुष्करम्
भवतु समन्तात् विपदामयुतं भवतु कदाचिन्नो मरणम् ।
तथापि न भवतु विचलनमिह नः कदापि धर्म्याल्लक्ष्यपथात्
विना विलम्बं प्राप्स्यामो वयमस्मज्जीवनसाफल्यम् ।। ३ ॥


आर्यलक्ष्मीः, कण्णूरु