सङ्गगुणदोषन्यायः

विकिसूक्तिः तः

सङ्गवशात् मनुष्ये गुणाः दोषाः वा भवन्ति । तप्ते अयसि पतितः जलबिन्दुः तत्क्षणे एव नश्यति । स एव जलबिन्दुः एव नश्यति । स एव जलबिन्दुः यदि कमलपत्रस्य उपरि पतितः तर्हि मौक्तिकम् इव चकास्ति । स एव स्वातिनक्षत्रे शुक्तिकायां पतितः मौक्तिकम् एव भवति । एवं मनुष्यस्य उत्तम – अधम- मध्यमदशाः संसर्गेण एव भवन्ति । एतदर्थकः श्लोकः भर्तृहरिसुभाषिते लभ्यते (५८ नीतिशतके)

"https://sa.wikiquote.org/w/index.php?title=सङ्गगुणदोषन्यायः&oldid=11259" इत्यस्माद् प्रतिप्राप्तम्