सामग्री पर जाएँ

सङ्घटिता वयमिह याम...

विकिसूक्तिः तः

सङ्घटिता वयमिह याम


   
सङ्घटिता वयमिह याम ।
राष्ट्रसमर्चां करवाम ॥

न कमपि भेदं गणयाम
अनुपमस्नेहं वितराम ।
स्यादपि कष्टशतं सततम्
क्रियते कार्यमिदं नियतम् ॥१॥

आशापाशशतैर्युक्तान्
ध्येयामृततो दूरगतान् ।
सुप्तान् बन्धून् जागरयाम
राष्ट्रसुकर्मसु लगयाम ॥२॥

भारतमस्माकं जननी
स्वर्गादपि या गरीयसी ।
विश्वगुरुं तां करवाम
जन्मसफलतां विन्दाम ॥३॥


- डा. विश्वासः


"https://sa.wikiquote.org/w/index.php?title=सङ्घटिता_वयमिह_याम...&oldid=18328" इत्यस्माद् प्रतिप्राप्तम्