सामग्री पर जाएँ

सम्भाषणम्:सुभाषितसङ्ग्रहः/समयोचितसदुक्तयः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विषयः योज्यताम्
विकिसूक्तिः तः

कुछ सुभाषित दुहरा गये हैं ।

[सम्पाद्यताम्]

अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ २६

क्षणशः कणश्चैव विद्यामर्थं च साधयेत् । क्षणे नष्टे कुतो विद्या, कणे नष्टे कुतो धनम् ॥ २७

अश्वस्य भूषणं वेगो मत्तं स्याद्गजभूषणं । चातुर्यं भूषणं नार्याः उद्योगो नरभूषणम् ॥ २८

कुलस्यार्थे त्यजेदेकम् ग्राम्स्यार्थे कुलन्त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ २९

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् । अयोग्यः पुरूषः नास्ति योजकस्तत्र दुर्लभः ॥ ३०

धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः । यस्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥ ३१

आहारनिद्राभयमैथुनं च सामान्यमेतद्धि नृणां पशूनां । (आहारनिद्राभयमैथुनानि सामान्यमेतानि नृणां पशूनां ।) धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥३२

आहारनिद्राभयमैथुनानि चत्वारि चिह्नानि वसन्ति देहे । ज्ञानं नराणामधिकं हि लोके ज्ञानेन (तेनैव) हीनः पशुभिस्समानः ॥

सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् । यद्भूतहितमत्यन्तम् एतत् सत्यं मतं मम ॥ ३३


सत्यं ब्रूयात् प्रियम् ब्रूयान्न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेषः धर्मः सनातनः ॥ ३५