सह परिजनेन विलसति...

विकिसूक्तिः तः

सुभाषितम्

सह परिजनेन विलसति धीरो गहनानि तरति पुनरेकः ।
विषमेकेन निपीतं त्रिपुरजिता सह सुरैरमृतम् ॥

saha parijanēna vilasati dhīrō gahanāni tarati punarēkaḥ ।
viṣamēkēna nipītaṁ tripurajitā saha surairamr̥tam

पदच्छेदः

सह, परिजनेन, विलसति, धीरः, गहनानि, तरति, पुनः, एकः, विषं, एकेन, निपीतं, त्रिपुरजिता, सह, सुरैः, अमृतम् ।


तात्पर्यम्

धीरः एकाकी चेदपि स्वजनान् अत्यन्तकष्टकालात् रक्षयित्वा प्रसिद्धः भवति । यथा त्रिपुरनामानं राक्षसं जितवान् यः, सः शिवः समुद्रमथनकाले उत्पन्नं विषं स्वयम् एक एव पीत्वा सर्वान् देवान् रक्षितवान्, अन्ये देवाः अमृतं पीतवन्तः, तथा धीराणां कार्याणि भवन्ति ।


आङ्ग्लार्थः

Those persons who are brave and of firm determination, are adored for leading their followers to get through from very tricky and dangerous situations. Look ! how the God Shiva, the slayer of the demon Tripura, himself drank the very potent poison 'Halaahal' in order to save various other Gods who were his followers and enabled them to drink Amruta.

"https://sa.wikiquote.org/w/index.php?title=सह_परिजनेन_विलसति...&oldid=16247" इत्यस्माद् प्रतिप्राप्तम्