सुभाषितरत्नकरण्डकम् (प्रज्ञाकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search

॥ अथ प्रज्ञाकथा ॥

प्रज्ञाधनेन विकलं तु नरस्य रूपं आलेख्यरूपं इव सारविहीनं अन्तः ।
बुद्ध्यान्वितस्य फलं इष्टं उदेति वीर्याद्वीर्यं तु बुद्धिरहितं स्ववधाय शत्रुः । । १८६ । ।

योऽनेकजन्मान्तरितं स्वजन्म भूतं भविष्यत्कुलनामगोत्रैः ।
मध्यान्तविद्योऽपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः । । १८७ । ।

यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तं
ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणां ।
आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुं उत्कीर्तयन्ति । । १८८ । ।

कार्यार्णवे चापि द्र्धं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा यतः सा शुभहेतुभूता । । १८९ । ।

तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यतां
न प्रज्ञाविकला विभान्ति पुरुषाः प्रातः प्रदीपा इव ।
मत्वैवं स्वपरात्मभद्रचरणे सद्धर्मसंसाधने
जित्वा क्लेशगणाञ् छुभार्थनिरताः क्रीडन्तु धर्मार्थिनः । । १९० । ।

 । । इति प्रज्ञाकथा । ।