सुभाषितरत्नकरण्डकम् (दुर्लभमनुष्यकथा)

विकिसूक्तिः तः
Jump to navigation Jump to search


॥ अथ दुर्लभमनुष्यकथा ॥

यत्प्राप्य जन्मजलधेरपि यान्ति पारं आरोपयन्ति शिवं उत्तमबोधिबीजं ।
चिन्तामणेरपि समभ्यधिकं गुणौघैर्मानुष्यकं क इह तद्विफली करोति । । १५ । ।

यो मनुष्यं कुशलविभवैः प्राप्य कल्पैरनल्पैर्
मोहात्पुण्यद्रविणं इह न स्वल्पं अप्याचिनोति ।
सोऽस्माल्लोकात्परं उपगतस्तीव्रं अभ्येति शोकं
रत्नद्वीपाद्वणिगिव गतः स्वं गृहं शून्यहस्तः । । १६ । ।

नाकुशलैः कर्मपथैर्मानुष्यं लभ्यते पुनः ।
अलभ्यमाने मानुष्ये दुःखं एव कुतः सुखं । । १७ । ।

नातः परं वञ्चनास्ति न च मोहोऽस्त्यतः परं ।
यदीदृशं क्षणं प्राप्य न कुर्यात्कुशलं बहु । । १८ । ।

एकक्षणकृतात्पापादवीचौ कल्पं आस्यते ।
नैकजन्मकृतात्पापात्का पुनः सुगतौ कथा । । १९ । ।

अत एवाह भगवान्मानुष्यं अतिदुर्लभं ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पनोपमं । । २० । ।

 । । इति दुर्लभमानुष्यकथा । ।