सुभाषितरत्नकरण्डकम् (प्रणामकथा)

विकिसूक्तिः तः



॥ अथ प्रणामकथा ॥

यच्चक्रवर्ती क्षितिपप्रधानैः कृत्वाञ्जलिं कुण्डलचारुगण्डैः ।
भक्त्या स्वमूर्ध्ना बहु वन्द्यते तद्बुद्धप्रणामात्कथयन्ति तज्ज्ञाः । । ८५ । ।

ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषां ।
हस्त्यश्वयानैश्च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामं । । ८६ । ।

प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं
हरति दुरितं सर्वं सर्वं ह्यरातिं अपाहते ।
सुगतिनियतां लोके नॄणां करोति च संततिं
फलति च शिवायान्तेऽवश्यं मुनीन्द्रनमस्क्रिया । । ८७ । ।

चक्री नृपो यद्बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः ।
संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद्धि फलं तदुक्तं । । ८८ । ।

एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरं ।
बुद्धप्रणामात्को विद्वान्कायकर्मान्यदाचरेत् । । ८९ । ।

कस्तं न नमः कुर्याद्दृष्ट्वा दूरात्पुनर्भवाद्भीतः ।
कृत्वैकनमस्कारं भवपारं अवाप यद्धेतोः । । ९० । ।

 । । इति प्रणामकथा । ।