सुभाषितरत्नभाण्डागारम् (१ मङ्गलाचरणप्रकरणम्)

विकिसूक्तिः तः
(सुभाषितरत्नभाण्डागारम्/१ मङ्गलाचरणप्रकरणम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

परब्रह्म
अथ स्वस्थाय देवाय नित्याय हतपाप्मने।
त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः॥१॥

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे॥२॥

अनन्तनामधेयाय सर्वकारविधायिने।
समस्तमन्त्रवाच्याय विश्वैकपतये नमः॥३॥

कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम्।
भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः॥४॥

नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने।
त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये॥५॥
  
यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु मे॥६॥

नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये।
अव्यक्तंव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये॥७॥

चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे।
दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः॥८॥

भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य।
ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै॥९॥

नित्यं निरावृति निजानुभवैकमानमानन्दधाम जगदङ्कुरबीजमेकम्।
दिग्देशकालकलनादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः॥१०॥

लोकत्रयस्थितिलयोदयकेलिकारः कार्येण यो हरिहरद्रुहिणत्वमेति।
देवः स विश्वजनवाङ्मनसातिवृत्तशक्तिः शिवं दिशतु शश्वदनश्वरं वः॥११॥

सर्वः किलायमवशः पुरुषाणुकर्मकायादिकारणगणो यदनुग्रहेण।
विश्वप्रपञ्चरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः॥१२॥

मध्याह्नार्कमरीचिकास्विव पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति।
यत्तत्त्वं विदुषां निमीलति पुनः स्रग्भोगिभोगोपमं सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधं महः॥१३॥

यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्वलं यन्महः।
शान्तं शाश्वतमक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम्॥१४॥

यः सृष्टिस्थितिसंहृतीर्विनुते ब्रह्मादिमूर्तित्रिकैर्यस्याधीनतयास्थितानि सदसत्कर्माण्यपि प्राणिनाम्।
नित्येच्छाकृतिबुद्धिमानथ परो जीवात्परात्मा खयं सोऽयं वो विदधातु पूर्णमचिराच्चेतोगतं यद्भवेत्॥१५॥


गणेशः
वन्दे वन्दारुमन्दारमिन्दुभूषणनन्दनम्।
अमन्दानन्दसंदोहबन्दुरं सिन्दुराननम्॥१॥

सरस्वती
धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम्।
नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम्॥१॥
सूक्ष्माय शुचये तस्मै नमो वाक्तत्त्वतन्तवे।
विचित्रो यस्य विन्यासो विदधाति जगत्पटम्॥२॥


शिवः
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे।
त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे॥१॥
वामाङ्गीकृतवामाङ्गिकुण्डलीकृतकुण्डलि।
आविरस्तु पुरो वस्तु भूतिभूत्याम्बराम्बरम्॥२॥

पार्वती
हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम्।
कालकूटविषस्पर्शजातमूर्च्छागमामिव॥१॥
पार्वतीमोषधीमेकामपर्णां मृगयामहे।
शूली हालाहलं पीत्वा यया मृत्युंजयोऽभवत्॥२॥


षण्मुखः
शैलराजतनयास्तनयुग्मव्यापृतास्ययुगलस्य गुहस्य।
शेषवक्रकमलानि मलं बो दुग्धपानविधुराणि हरन्तु॥१॥
विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयमाधः कृतानि।
न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः॥२॥
अर्चिष्मन्ति विदार्यवक्रकुहराण्यासृक्कितो वासुकेरङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्।
एकं त्रीणि च सप्त पञ्च षडितिप्रध्वस्यसंख्याक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः॥३॥


हरिहरौ
जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ।
कामारिं कामतातं वा कंचिद्देवं भजामहे॥१॥
गङ्गायमुनयोगेन तुल्यं हारिहरं वपुः।
पातु नाभिगतं पद्मं यस्य तन्मध्यगं यथा॥२॥
 

त्रिमूर्तयः
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्ठेः केवलात्मने।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे॥१॥
नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते।
अथ विश्वस्य संहर्ते तुभ्यं त्रेधास्थितात्मने॥२॥

विष्णुः
नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे।
विष्णवेऽपारसंसारपारोत्तरणसेतवे॥१॥
आदिमध्यान्तरहितं दशाहीनं पुरातनम्।
अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम्॥२॥
लक्ष्मीः
जयन्ति जगतां मातुः स्तनकुङ्कुमबिन्दवः।
मुकुन्दाश्लेषसंक्रान्तकौस्तुभश्रीविडम्बिनः॥१॥
पायात्पयोधिदुहितः कपोलामलचन्द्रमाः।
यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम्॥२॥
ब्रह्मा
तं वन्दे पद्मसद्मानमुपवीतच्छटाछलान्।
स्रोतस्रयेणैव यं सदैव निषेवते॥१॥
कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम्।
नगोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम्॥२॥
कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः।
घोरितविततालिरुतो नाभिसरोजे विधिर्जयति॥३॥
अविरतान्बुजसंगतिसंगलद्वहलकेसरसंवलितेव वः।
ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोऽवतात्॥४॥


दशावताराः
वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः॥१॥


सूर्यः
खण्डितानेत्रकंजालिमञ्जुरञ्जनपण्डिताः।
मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः॥१॥
शुकतुण्डच्छवि सवितुश्चण्डरुचॆः पुण्डरीकवनबन्धोः।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः॥२॥
अतिविततगगनसरणिप्रसरण्परिमुक्तविश्रमानन्दः।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति॥३॥
 

चन्द्रः
लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि।
पालयन्तमथ कोककुलानि ज्योतिषां पतिमहं महयामि॥१॥


पृथिवी
स्वर्गौकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वरस्वाहाकारवषट्क्रियोत्थममृतं स्वादीय आदीयते।
आग्नायप्रवणैरलंकृतिजुषेऽमुष्यै मनुष्यैः शुभैर्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः॥१॥