सुभाषितसङ्ग्रहः/सूक्तिमञ्जरी

विकिसूक्तिः तः
(सुभाषितानि/सूक्तिमञ्जरी इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

<poem> यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । तथा सज्जनगोष्ठिषु पतिष्यसि पतिष्यसि ॥१

शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः । स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥२

वृक्षान् छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥३

वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥४

सदा वक्रस्सदारुष्टः सदापूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥५

वलीभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥६

गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते । अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥७

इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि । इदमेव सुबुद्धित्वमायादल्पतरो व्ययः ॥८

घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् । येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥९

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥१०

रात्रिर्गमिष्यति भविष्यति सुप्रभातम् भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ११

भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥१२

लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥१३

प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ १४

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति देशिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥१५

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १६

उच्चैरुच्चरितव्यं यत्किञ्चिदजानतापि पुरुषेण । मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥१७

उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥१८

मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥१९

यत्रोऽत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसम्योगस्तत्र श्रीरचला ध्रुवम् ॥२०

दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥२१

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः । भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥२२

यदमी दशन्ति दशना रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥२३

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ २४

श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः । समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ २५

सुदुर्बलं नावजानाति किञ्चित् युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥२६

एतावानेव पुरुषः कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुणं ततः ॥२७

कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचो विन्यासवैचित्र्यमात्रमत्र विचार्यताम् ॥२८

को न याति वशं लोके मुखे पिण्डेन पूरितः l मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ll२९

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः l न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ll३०

असाह्ययः समर्थोऽपि तेजस्वी किं करिष्यति l निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ll ३१

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।३२

येषां न विद्या न तपो न दानं l ज्ञानं न शीलं न गुणो न धर्मः ll३३ ते मृत्युलोके भुवि भारभूतः l मनुष्यरूपेण मृगाश्र्चरन्ति ll३४

वितर तापशतानि यदृच्छया विलिख तानि सहे चतुरानन l अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ll३५

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् l वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ll३६

उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः l परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ll३७

अश्र्वं नैव गजं नैव व्याघ्रं नैव च नैव च l अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ll३८

योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका l अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ll३९

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥४०

अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति। अवश्यं विपदं याति कीलोत्पाटीव वानरः॥४१

अनागतवतीं चिन्तामसम्भाव्यां करोति यः। स एव पाण्डुरः शेते देवशर्मपितायथा॥४२

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि।

व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥४३

चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥४४

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥४५

पुस्तकस्था तु या विद्या परहस्तगतं धनम्।

 कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥४६

छायामन्यस्य कुर्वन्ति तष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥४७

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्। दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।४८

को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥४९

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥५०

असाह्ययः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ॥५१

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।५२

येषां न विद्या न तपो न दानं । ज्ञानं न शीलं न गुणो न धर्मः ॥५३

ते मृत्युलोके भुवि भारभूतः । मनुष्यरूपेण मृगाश्र्चरन्ति ॥५४

वितर तापशतानि यदृच्छया विलिख तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥५५

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥५६

उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ॥५७

अश्र्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥५८

योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥५९

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥६०

अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति। अवश्यं विपदं याति कीलोत्पाटीव वानरः॥६१

अनागतवतीं चिन्तामसम्भाव्यां करोति यः। स एव पाण्डुरः शेते देवशर्मपितायथा॥६२

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥६३

चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥६३

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥६४

पुस्तकस्था तु या विद्या परहस्तगतं धनम्। कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥६५

छायामन्यस्य कुर्वन्ति तष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥६६

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्। दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।६७

को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥६८

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥६९

असाह्ययः समर्थोऽपि तेजस्वी किं करिष्यति । निर्वाते ज्वलिते वह्निः स्वयमेवोपशाम्यति ॥७०

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।७१

येषां न विद्या न तपो न दानं । ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूतः । मनुष्यरूपेण मृगाश्र्चरन्ति ॥ ७२

वितर तापशतानि यदृच्छया विलिख तानि सहे चतुरानन । अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ॥ ७३

गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥७४

उष्ट्राणां च गृहे लग्नं गर्दभाः शान्तिपाठकाः । परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ॥७५

अश्र्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्याद्देवो दुर्बलघातकः ॥७६

योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥७७

अनागतविधाता च प्रत्युत्पन्नमतिस्तथा। द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥७८

अकर्तव्येषु व्यापारं यो नरः कर्तुमिच्छति। अवश्यं विपदं याति कीलोत्पाटीव वानरः॥७९

अनागतवतीं चिन्तामसम्भाव्यां करोति यः। स एव पाण्डुरः शेते देवशर्मपितायथा॥८०

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्॥८१

चिन्तनीया हि विपदामादावेव प्रतिक्रिया। न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे॥८२

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥८३

पुस्तकस्था तु या विद्या परहस्तगतं धनम्। कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम्॥८४

छायामन्यस्य कुर्वन्ति तष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव॥८५

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात्। दुग्धं यच्छन्ति लोकेभ्यो गावो लोकस्य मातर:।।८६


यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । तथा सज्जनगोष्ठिषु पतिष्यसि पतिष्यसि ॥८७

शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः । स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥८८

वृक्षान् छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥८९

वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥९०

सदा वक्रस्सदारुष्टः सदापूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥९१

वलीभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥९२

गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते । अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥९३

इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि । इदमेव सुबुद्धित्वमायादल्पतरो व्ययः ॥९४

घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् । येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥९५

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥९६

रात्रिर्गमिष्यति भविष्यति सुप्रभातम् भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ९७

भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥९८

लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥९९

प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ १००

उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति देशिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥१०१

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥१०२

उच्चैरुच्चरितव्यं यत्किञ्चिदजानतापि पुरुषेण । मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥१०३

उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥१०४

या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०५


मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥१०६

यत्रोऽत्साहसमारम्भो यत्रालस्यविहीनता । नयविक्रमसम्योगस्तत्र श्रीरचला ध्रुवम् ॥१०७

दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥१०८

अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः । भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ॥१०९

यदमी दशन्ति दशना रसना तत्स्वादमनुभवति । प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु ॥११०

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ १११

प्राणमेवं परित्यज्य मानमेवाभिरक्षतु । अनित्याश्चाध्रुवाः प्राणाः मानमाचन्द्रतारकम् ॥११२

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥११३

आयुषः खण्डमादाय रविरस्तमयं गतः । अहन्यहनि बाधव्यं किमेतत् सुकृतं कृतम् ॥११४

सुखार्थी चेत् त्यजेत् विद्यां विद्यार्थी चेत् त्यजेत् सुखम्। सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥११५

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्। वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥११६

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्। प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः॥११७

श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे वापराह्निकम्। न हि प्रतीक्षते मृत्युः कृतमस्य नवा कृतम्॥११८

शुकवद्भाषणं कुर्यात्बकवद्ध्यानमाचरेत्। अजवत् चर्वणं कुर्यात् गजवत् स्नानमाचरेत्॥११९

वृत्तं यत्नेन संरक्षेत् वित्तमायाति याति च। अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥१२०

अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि। कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि॥१२१

अजरामरवत्प्राज्ञः विद्यामर्थं च साधयेत्। गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥१२२

अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते। स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति॥१२३

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम्। अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम्॥१२४