"आक्रान्तं मरणेन ..." इत्यस्य संस्करणे भेदः

विकिसूक्तिः तः
(लघु) added Category:जन्म using HotCat
पङ्क्तिः १७: पङ्क्तिः १७:
[[वर्गः:आकारादीनि सुभाषितानि]]
[[वर्गः:आकारादीनि सुभाषितानि]]
[[वर्गः:शार्दूलविक्रीडितम् ]]
[[वर्गः:शार्दूलविक्रीडितम् ]]
[[वर्गः:जन्म]]

११:२४, २४ एप्रिल् २०२० इत्यस्य संस्करणं

सुभाषितम्

आक्रान्तं मरणेन जन्म, जरसा चात्युज्ज्वलं यौवनम्।
सन्तोष: धनलिप्सया, शमसुखं प्रौढाङ्गनाविभ्रमैः
लोकै: मत्सरिभि: गुणा: वनभुव: व्यालै: नृपा: दुर्जनैः
अस्थैर्येण विभूतयः अपि उपहता: ग्रस्तं न किं केन वा?

वैराग्यशतकम् २६

ākrāntaṃ maraṇena janma, jarasā cātyujjvalaṃ yauvanam।
santoṣa: dhanalipsayā, śamasukhaṃ prauḍhāṅganāvibhramaiḥ
lokai: matsaribhi: guṇā: vanabhuva: vyālai: nṛpā: durjanaiḥ
asthairyeṇa vibhūtayaḥ api upahatā: grastaṃ na kiṃ kena vā?

पदच्छेदः

आक्रान्तं, मरणेन, जन्म, जरसा, च, अत्युज्ज्वलं, यौवनम्, सन्तोष:, धनलिप्सया, शमसुखं, प्रौढाङ्गनाविभ्रमैः, लोकै:, मत्सरिभि:, गुणा:, वनभुव:, व्यालै:, नृपा:, दुर्जनैः, अस्थैर्येण, विभूतयः, अपि, उपहता:, ग्रस्तं, न, किं, केन, वा?


तात्पर्यम्

जन्म स्वरूपनाशकेन मृत्युना आक्रान्तम् । अतिरमणीयं यौवनम् अपायहेतुभूतया जरया आक्रान्म् । संतोषः तदुपद्रवकारिण्या धनवाञ्छया आक्रान्तः । शमसुखं निरुद्धान्तःकरणजन्यं सुखम् अङ्गनानां विलासैः आक्रान्तम् । विद्याविनयादयः गुणा: परोत्कर्षासहिष्णुभिः मत्सरिभिः लोकजैनैः उपहताः । अरण्यप्रदेशाः दुष्टपशुभिः उपहताः । राजानः दुष्टमन्त्रिभिः समाक्रान्ताः । विभूतयः अस्थैर्येण अस्थिरभावेन उपहताः । अतः किं केन वा न ग्रस्तं सर्वमपि ग्रस्तम् । अतः बुद्धिमता पुरुषेण सर्वमनित्यं सदोषं च वस्तु विहाय नित्यवस्तुनि परमेश्वरे अन्तःकरणाभिनिवेशः कर्तव्य इत्यर्थः ।


आङ्ग्लार्थः

Birth is preyed upon (lit. attacked) by death ; brilliant youth by old age; contentment by greed ; happiness of self-control by the wiles of gay women ; virtues by the jealousy of men ; forest tracts by beasts of prey ; kings by the wicked (in counsel) ; and powers even are vitiated by their evanescence ; what on earth is not seized upon by something else।

"https://sa.wikiquote.org/w/index.php?title=आक्रान्तं_मरणेन_...&oldid=17512" इत्यस्माद् प्रतिप्राप्तम्