दानं प्रियवाक्सहितं...
सुभाषितम्
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् ।
वित्तं त्यागनियुक्तं दुर्लभमेतत् चतुष्टयं लोके ॥
तात्पर्यम्
उत्तमैः वचनैः युक्तं दानं, गर्वरहितं ज्ञानं, क्षमायुतं शौर्यं, त्यागेन युक्ता सम्पत्तिः - एते चत्वारः लोके विरलतया दृश्यन्ते ।