दूरीकरोति दुरितं...
सुभाषितम्
दूरीकरोति दुरितं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गतिः कथय किं न करोति पुंसाम् । सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)
तात्पर्यम्
लोके सर्वेषां जनानां स्नेहिताः भवन्ति एव । तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव । यतः स्वार्थपराः एव अधिकाः सन्ति लोके । तथापि अस्माभिः सज्जनानां सहवासः एव करणीयः इति वदन् सुभाषितकारः तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिताः दुष्टाः विचाराः दूरं गच्छन्ति । मनः शुद्धं भवति । पुरा कृतं पापमपि भस्म भवति । अपि च प्राणिनां विषये दया अधिका भवति । अतः सज्जनानां स्नेहः मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति ।