जलबिन्दुनिपातन्यायः

विकिसूक्तिः तः

एकैकशः बिन्दुरुपेणा जलम् अधः पतति चेत् अचिरादेव जलकुम्भः अपि तेन जलेन पूर्णो भवति । एकेन बिन्दुना घटपूर्तिः अशक्या परन्तु निरन्तरं पततां जलबिन्दूनां समाहारेण घटः पूर्णो भवति । एवं निरन्तरायं श्रद्धया कृतः अल्पारम्भोऽपि क्रमेण सफलो भवतीति अनेन सूय्यते । यथा – जलबिन्दुनिपातेन क्रमशः पूर्यते घटः । स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥ चाणक्यनीतिः १२-१९

"https://sa.wikiquote.org/w/index.php?title=जलबिन्दुनिपातन्यायः&oldid=10069" इत्यस्माद् प्रतिप्राप्तम्