जलानयनन्यायः

विकिसूक्तिः तः

‘जलम् आनय’ इत्युक्ते तावता ‘पात्रे जलम् आनय’ इत्येव कथितं भवति खलु । पात्रे आनय इति पृथग् वक्तव्यं न भवति । एवं यस्य कस्यापि शब्दान्तरनिरपेक्षस्य उच्चारणेन अन्योऽपि शब्दः गृहीतो भवतीति अनेन सूच्यते ।

"https://sa.wikiquote.org/w/index.php?title=जलानयनन्यायः&oldid=10074" इत्यस्माद् प्रतिप्राप्तम्