ज्ञाज्ञौ द्वावजौ ईशनीशौ...

विकिसूक्तिः तः

ज्ञाज्ञौ द्वावजौ ईशनीशौ
अजा ह्येका भोक्तृभोग्यार्थयुक्ता ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता
त्रयं यदा विन्दते ब्रह्ममेतत् ॥ - श्वेताश्वतरोपनिषत् १-९

सर्वज्ञः ईशः, अज्ञः जीवः, उभौ अपि एतौ अजौ एव ।
जीवभोगकरिणी प्रकृतिरपि अजा एव । आत्मा अनन्तः
विश्वरूपः अकर्ता च भवति । एतत् त्रयमपि ब्रह्मैव इति
ज्ञात्वा कृतकृत्यो भवति ॥

ज्ञः, अज्ञः, प्रकृतिरिति, त्रयमपि परमार्थतः परमेव ब्रह्म ।
‘ज्ञः’ इति सर्वज्ञः ईश्वरः; ‘अज्ञः’ इति असर्वज्ञः जीवः;
प्रकृतिस्तु जडा सर्वशक्तिः । ईश्वरस्य जीवानां प्रकृतेश्च
नियंतृ सूक्ष्मतत्त्वं किञ्चित् तत्त्वं विद्यते । तदेव ब्रह्म
इति जानीयात् ॥

परमार्थदृष्ट्या तु ईश्वरः जीवाः प्रकृतिश्च इत्येतत् त्रयमपि
अजम् एकमेवाद्वितीयं ब्रह्मैव । एकमेव ब्रह्म सर्वज्ञेश्वररूपेण,
अल्पज्ञ जीवरूपेण अचेतनप्रकृतिरूपेण च त्रेधा अवभासते ।
एवं यो जानाति स एव ब्रह्मज्ञानी भवति । सः कृतार्थः सन्
मुक्तो भवति ॥