दाददो दुदददुददाद...

विकिसूक्तिः तः


चित्रकाव्यम्

दाददो दुद्-ददुद्-दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोऽददः ॥


वैशिष्ट्यम्

अस्मिन् श्लोके इत्येतत् वर्णमात्रम् उपयुक्तम् ।


अर्थः

सर्वविधानां वराणां प्रदाता, दुर्मतीनां निग्रहीता, लोकपावनः, परपीडकानां निग्रहणे समर्थाभ्यां बाहुभ्यां युक्तः श्रीकृष्णः स्वीयं मर्मभेदकं बाणं शत्रून् प्रति प्रयुक्तवान् ।



"https://sa.wikiquote.org/w/index.php?title=दाददो_दुदददुददाद...&oldid=15285" इत्यस्माद् प्रतिप्राप्तम्