फलकम्:चाटुचणकः

विकिसूक्तिः तः
मे २०२४
शुक्रवासरः
०२:२५ UTC

गन्धं सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु ।
विद्वान् धनाढ्यो नृपतिश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥

ब्रह्मा उत्तमवर्णयुक्तम् अमूल्यं सुवर्णं सृष्टवान् । किन्तु तत्र सः गन्धं न योजितवान् । माधुर्ययुक्तम् इक्षुदण्डं सृष्टवान् सः तस्मिन् फलदानसामर्थ्यं न योजितवान् एव । सुगन्धयुक्तं चन्दनवृक्षं सृष्टवान् सः चन्दनवृक्षेषु पुष्पयोजनं विस्मृतवान् । पण्डितान् सृष्टवान् सः तेभ्यः धनानुकूल्यं न कल्पितवान् । सकलभोगसाधनानि राज्ञे दत्तवान् सः दीर्घायुष्यं न दत्तवान् एव । एवं सृष्टिकर्ता बहून् प्रमादान् कृतवान् । सृष्टिकाले योग्यः मार्गदर्शी कोऽपि ब्रह्मणः पार्श्वे न आसीत् यत् तस्यैव फलम् एतत् !








"https://sa.wikiquote.org/w/index.php?title=फलकम्:चाटुचणकः&oldid=7484" इत्यस्माद् प्रतिप्राप्तम्