यो ह वै ज्येष्ठं च श्रेष्ठं च...

विकिसूक्तिः तः

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ - छान्दोग्योपनिषत् ५-१-१

यो हि ज्येष्ठं श्रेष्ठं च प्राणम् उपास्ते, सः ज्येष्ठः श्रेष्ठश्च भवति । प्राणो हि ज्येष्ठश्च श्रेष्ठश्च !

शरीरम्, इन्द्रियाणि, अन्तःकरणं प्राणश्च – इत्येतस्य समूहस्य सङ्घातः इति नामधेयम् । अस्मिन् सङ्घाते
प्राणः एव मुख्यः, प्राण एव च सारम् । परस्मादात्मनः प्राथम्येन आविर्भूतोऽयं खलु प्राणः । प्रथमतः जातत्वादयं
प्राणः ज्येष्ठः, एतन्निमित्तत्वात् सङ्घातस्य प्राणोऽयं श्रेष्ठश्च । प्राणादेव हि सङ्घातोऽयं जीवति, प्राणे सत्येव सङ्घातस्य
अस्तित्वम् ॥

एवं ज्ञात्वा यः प्राणं ज्येष्ठं श्रेष्ठम् उपास्ते, तादृशः उपासकोऽपि जनानां मध्ये स्वयमपि ज्येष्ठः श्रेष्ठो भवति । तादृशम्
उपासकं जना आदरेण भक्त्या च उपासते । प्राणोपासकः सर्वथा लोके प्रतिष्ठितः प्रसिद्धो भूत्वा विराजते । प्राणवदेव
प्राणोपासकोऽपि जगति पूज्यो वन्द्यो भवति इत्यर्थः ॥