अभिवादनशीलस्य नित्यं...

विकिसूक्तिः तः
(अभिवादन शीलस्य नित्यं... इत्यस्मात् पुनर्निर्दिष्टम्)

सुभाषितम्

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धंन्ते आयुर्विद्यायशोबलम् ॥

मनुस्मृतिः II-121

abhivādanaśīlasya nityam vṛddhopasevinaḥ।
catvāri tasya vardhaṃte āyurvidyāyaśobalam ॥

पदच्छेदः

अभिवादनशीलस्य, नित्यं, वृद्धोपसेविनः, चत्वारि, तस्य, वर्धंन्ते, आयुः, विद्या, यशः, बलम् ।


तात्पर्यम्

यः विनयशीलः सन्, सर्वदा वृद्धानां सेवायां तत्परः भवति तस्य आयुः, विद्या, यशः बलञ्च वर्धते ।


आङ्ग्लार्थः

A person who is polite and serves experienced people regularly, gains four qualities - age, knowledge, fame and power.