गृहगृहनवनीतं...

विकिसूक्तिः तः

गृहगृहनवनीतं निर्भयं चोरयन्तं सदनसदनबालानाह्वयन्तं नयन्तम्।
वनवनमृगधेनूर्वेणुना नादयन्तं जनजनहृदयस्थं बालकृष्णं नमामि॥

"https://sa.wikiquote.org/w/index.php?title=गृहगृहनवनीतं...&oldid=17084" इत्यस्माद् प्रतिप्राप्तम्