विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७९६ पृष्ठानां सङ्ग्रहः विद्यते ।
मङ्गलवासरः, मार्च् १८, २०२५; समयः- २१:५७ UTC
महिमा तेऽन्येन न सन्नशे ॥ (यजुर्वेदः २३-३५)
तव माहात्म्यम् अन्यैः न सिद्ध्यते ।
सुधीर्घकालं यावत् ज्ञानस्य प्रतिष्ठा तदा भवति यदा तेन सह संस्कृतिः योजिता भवति । केवलेन ज्ञानेन अवरवर्णानाम् उन्नतिः नैव सिध्यति । सा तु संस्कृताभ्यासेन एव सिध्यति ।
विष्णोः का वल्लभा देवी लोकत्रितयचारिणी ? वर्णावाद्यन्तिमौ दत्त्वा कः शब्दः तुल्यवाचकः ? त्रिषु लोकेषु या सञ्चरति, या विष्णोः प्रिया पत्नी सा का ? तस्य शब्दस्य आदौ अन्ते च एकैकः वर्णः यदि योज्यते तर्हि तुल्यवाचकः शब्दः भवति । कः सः शब्दः ?
उत्तरम्
अर्धं दानववैरिणा गिरिजयाप्यर्धं शिवस्याहृतं देवेत्थं जगतीतले स्मरहराभावे समुन्मीलति । गङ्गा सागरमम्बरं शशिकला नागाधिपः क्ष्मातलं सर्वज्ञत्वमधीश्वरत्वमगमत् त्वां मां च भिक्षाटनम् ॥ कदाचित् कश्चन अर्थी राजानं याचितुम् आगतः । सः अवदत् - ‘महाराज ! लोके भगवतः शिवस्य अभावः जातः अस्ति’ इति । ‘कथमेतत् ?’ इति पृष्टं राज्ञा । ‘शिवस्य अर्धं विष्णुना स्वीकृतं, पुनरर्धं पार्वत्या हृतम् । (अर्धनारीश्वरत्वात्) एवं विष्णुना पार्वत्या च अर्धं पुनरर्धं च हृतम् इत्यतः शिवस्य अभावः समुत्पन्नः ।’ ‘एवं तर्हि शिवं श्रितवतां गङ्गाचन्द्रादीनां का गतिः ?’ - राजा अपृच्छत् । ‘गङ्गा सागरं गता । चन्द्रकला आकाशम् अगमत् । सर्पः पातालम् अगच्छत् । शिवस्य सर्वज्ञत्वम् ईश्वरत्वं च त्वां प्राप्नोत् । वराकं भिक्षाटनं तु मया प्राप्तम्’ इति अवदत् अर्थी । तस्य चाटूक्तिं श्रुतवान् राजा प्रभूतं धनं दत्तवान् इति किं पुनर्वक्तव्यम् ?
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh