सामग्री पर जाएँ

माधवरावसदाशिवगोळ्वल्करः

विकिसूक्तिः तः
(अमृतवचनम्/माधवरावसदाशिवगोळ्वल्करः इत्यस्मात् पुनर्निर्दिष्टम्)

माधवरावसदाशिवगोळ्वल्करः (फेब्रवरी १९, १९०६ - जून् ५, १९७३) गुरूजी इति नाम्ना प्रसिद्धः आसीत् । अयं राष्ट्रियस्वयंसेवकसङ्घस्य द्वितीयः सरसङ्घचालकः (प्रमुखः अधिकारी) आसीत् ।

अमृतवचनानि

[सम्पाद्यताम्]
  • अस्माकं राष्ट्रपुरुषः विजयस्य मूर्तिमत् प्रतीकम् अस्ति । अस्माकं दिव्यवीरपूजायाः प्राणरूपा अस्ति ‘विजयसङ्कल्पशक्तिः’ । एते, ते एव आत्मानः सन्ति, ये च स्वजीवने क्षणं यावत् अपि नेत्रपथात् विजयस्य च्युतिं न सहन्ते, कष्टानि उपस्थितानि चेत् ये च भीताः न भवन्ति, अपि तु निरन्तरम् अग्रे एव सरन्ति ।


  • वयं यत्किमपि कुर्याम चेदपि अस्माकं परिधाने, व्यवहारे, जीवनस्य सर्वेषु क्षेत्रेषु चापि भावात्मकनिष्ठा स्पष्टतया अभिव्यक्ता भवेत् । एतदेव अस्माकं सर्वेषाम् उपरि स्थितं महदुत्तरदायित्वं नाम ।


  • स्वस्य समाजं शक्तिशालिनं महान्तं सुखिनं च कुर्याम । एषः अस्माकं धर्मः । स्वसमाजविषये सहज-प्रेम भक्तिभावश्च, अस्मदीये राष्ट्रियास्तित्वे भावात्मकश्रद्धा च सर्वेषु कार्येषु निरन्तरं प्रेरणां यच्छन्ति ।


  • विचारः अतिश्रेष्ठः चेदपि, तत्त्वज्ञानं सुमहत् चेदपि यावत् कार्यकर्ता स्वयंप्रेरणया तस्य तत्त्वज्ञानस्य निमित्तं सर्वविधं परिश्रमं सर्वप्रकारकं त्यागं च कर्तुं सिद्धः न भवति तावत् कार्यं न वर्धिष्यते इत्येषा ध्येयनिष्ठा सङ्घस्य कार्यकर्तृभ्यः परिचायिता अस्ति । तस्य फलस्वरूपम् एव अस्ति एतत् सङ्घकार्यम् ।


  • एतदस्माकं सर्वोत्कृष्टं कर्तव्यं यत् अस्माकं समाजस्य जीवनशक्तेः क्षयं कल्पयन्तं भेदभावं विरोधं च दूरीकृत्य समग्रं समाजं पुनः सङ्घटितं सामञ्जस्यपूर्णं च कुर्याम इति ।


  • निस्स्वार्थः आत्मविश्वासयुक्तः निष्ठावान् ध्येयवादी राष्ट्रियवैशिष्ट्याभिमानी जनः एव सर्वदा राष्ट्रिय-विपत्तिकाले स्वराष्ट्रस्य सुप्तं पौरुषं जागरितवान् दृश्यते । स एव भग्नावशेषाणां राशितः तत् पुनः उत्थाप्य सगौरवं स्थापितवान् च दृश्यते ।


  • वयं समग्रया शक्त्या तत् ज्योतिः प्रवर्तयेम । तत् देशव्यापि प्रखरं च कुर्याम । एतस्य प्रकाशेन सम्पूर्णः अज्ञानान्धकारः विलुप्तः भविष्यति । सः प्रकाशः प्रपञ्चस्थाः सर्वाः आसुरीयशक्तीः स्पर्धायै निमन्त्रयति, अस्माकं राष्ट्रं च एतस्य दृढाधारस्य उपरि अजेयतया स्थास्यति । सम्पूर्णस्य जगतः पुरतः प्रमाणीकरवाम यत् वयम् एतस्य श्रेष्ठस्य राष्ट्रस्य अजेयसन्तानाः स्मः इति ।
  • यः सर्वदा बाह्यकारणतः उत्पन्नेषु सङ्कटेषु सत्सु अपि समाजं सुरक्षितं स्थापयति, अपि च यः राष्ट्रजीवनस्य सर्वाणि क्षेत्राणि अनुप्राणितानि उद्भासितानि च करोति, तादृशस्य सर्वशक्तिमतः सर्वकारस्य निर्माणम् इत्येतत् महत् लक्ष्यम् एव अस्माकं पुरतः अस्ति ।


  • अनन्तकालादपि मानवैकतादर्शः, सङ्घर्षसर्वविध-दैन्यादिभ्यः विनिर्मुक्तस्य प्रपञ्चस्य कल्पना च अस्माकं हृदयम् उद्दीपितवन्तौ स्तः । आ युगसहस्रेभ्यः निरन्तरम् अस्माकम् एका प्रार्थना - ‘सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः’ इति । (सर्वे सुखिनः भवन्तु, सर्वे अनिष्टेभ्यः विनिर्मुक्ताः भवन्तु इति एतस्य अर्थः ।) सर्वेषां प्राणिनां पूर्णकल्याणसाधनम् एव सदा अस्माकम् उदात्तादर्शः अस्ति ।


  • प्रमाणभूताः प्राचीनाः आलेखाः निस्सन्दिग्धतया प्रकटितवन्तः सन्ति यत् विज्ञानकलादीनां सर्वासु अपि शाखासु वयम् अन्यप्रपञ्चात् अपि शताधिकवर्षैः अग्रे आस्म इति । ‘.... कृण्वन्तो विश्वमार्यम्’ इति उद्घोषयन्तः अस्मत्पूर्वजाः महात्मानः प्रपञ्चस्य चतुर्षु अपि कोणेषु भ्रमणं कृतवन्तः । अस्माकं कल्याणकारी प्रभावः प्रपञ्चस्य विशालेषु खण्डेषु प्रसृतः आसीत् । अस्माकं पताका च बहुषु देशेषु विराजते स्म । दूरदेशीयाः यात्रिकाः अस्माकं वैभवं द्रष्टुम् अत्र आगच्छन्ति स्म ।