रामायणसूक्तयः (कन्यादानम्)

विकिसूक्तिः तः
(कन्यादानम् इत्यस्मात् पुनर्निर्दिष्टम्)

१. कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ।

न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ (उत्तरकाण्डः ९/९)

२. दातृप्रतिग्रहीतृभ्यां सर्वार्थाः सम्भवन्ति हि ।

स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ (वालकाण्डः ७३/१२)

३. प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा । (वालकाण्डः ६९/१४)

४. प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः ।

वक्तव्यं कुलजातेन तन्निबोधमहामते ॥ (वालकाण्डः ७१/२)

५. यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः । (उत्तरकाण्डः २५/२८)