रामायणसूक्तयः (कामः)

विकिसूक्तिः तः
(कामः इत्यस्मात् पुनर्निर्दिष्टम्)

१. अकामां कामयानस्य शरीरमुपतप्यते ।

इच्छतीं कामयानस्य प्रीतिर्भवति शोभना ॥ (सुन्दरकाण्डः २२/४२)

२. अर्थधर्मौ परित्यज्य यः काममनुवर्तते ।

एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ (अयोध्याकाण्डः ४२/१३)

३. कामस्वभावो यः सोऽसौ न शक्यस्तं प्रमार्जितुम् । (अरण्यकाण्डः ५०/१२)

४. वामः कामो मनुष्याणां यस्मिन् किल निवध्यते ।

जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ (सुन्दरकाण्डः २२/४)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(कामः)&oldid=2901" इत्यस्माद् प्रतिप्राप्तम्