रामायणसूक्तयः (कुटुम्बम्)

विकिसूक्तिः तः
(कुटुम्बम् इत्यस्मात् पुनर्निर्दिष्टम्)

१. नाग्निर्नान्यानि शस्त्राणि

ननः पाशा भयावहाः ।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ (युद्धकाण्डः १६/७)

२. प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः । (युद्धकाण्डः १६/५)

३. प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस ।

ज्ञातयोऽप्यवमन्यन्ते शूरं परिभवन्ति च ॥ (युद्धकाण्डः १६/४)

४. यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।

समेत्य तु व्यपेयातां कालमासाद्य कंचन ॥
एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ (अयोध्याकाण्डः १०५/२६-२७)

५. हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा । (युद्धकाण्डः १६/३)