रामायणसूक्तयः (क्रोधः)

विकिसूक्तिः तः
(क्रोधः इत्यस्मात् पुनर्निर्दिष्टम्)

१. क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्यात् गुरूनपि ।

क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ॥ (सुन्दरकाण्डः ५५/४)

२. क्रोधः प्राणहरः शत्रुः क्रोधो मित्र मुखो रिपुः ।

क्रोधो ह्योसिर्महातीक्ष्णः सर्वं क्रोधोऽपकर्षति ॥ (प्रक्षिप्तः) (उत्तरकाण्डः २/२१)

३. तपते यजते चैव यच्च दानं प्रयच्छति ।

क्रोधेन सर्वं हरति तस्मात् क्रोधं विसर्जयेत् ॥ (प्रक्षिप्तः) (उत्तरकाण्डः २/२२)

४. धन्याः खलु महात्मानो

ये बुद्ध्या कोपमुत्थितम् ।
निरुन्धन्ति महात्मानो
दीप्तमग्निमिवाम्भसा ॥ (सुन्दरकाण्डः ५५/३)

५. नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् । (सुन्दरकाण्डः ५५/५)

६. यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।

यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ (सुन्दरकाण्डः ५५/६)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(क्रोधः)&oldid=2919" इत्यस्माद् प्रतिप्राप्तम्