रामायणसूक्तयः (क्षत्रियः)

विकिसूक्तिः तः
(क्षत्रियः इत्यस्मात् पुनर्निर्दिष्टम्)

१. अग्निसंयोगवद्धेतुः शस्त्रसंयोगौच्यते । (अरण्यकाण्डः ९/२३)

२. अपराधं विना हन्तुं लोको वीर न मंस्यते । (अरण्यकाण्डः ९/२५)

३. कदर्यकलुषा बुद्धिर्जायते शस्त्रसेवनात् । (अरण्यकाण्डः ९/२८)

४. क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम् ।

धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥ (अरण्यकाण्डः ९/२६)

५. क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति । (अरण्यकाण्डः १०/३)