रामायणसूक्तयः (क्षमा)

विकिसूक्तिः तः
(क्षमा इत्यस्मात् पुनर्निर्दिष्टम्)

१. अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा । (बालकाण्डः ३३/७)

२. क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ।

क्षमा यशः क्षमा धर्मः क्षमायां तिष्ठितं जगत् ॥ (बालकाण्डः ३३/८)

३. न सर्वत्र क्षमा वीरपुरुषेषु प्रदृश्यते । (उत्तरकाण्डः ५८/५)

४. लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम् ।

कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ (युद्धकाण्डः ११३/४६)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(क्षमा)&oldid=2927" इत्यस्माद् प्रतिप्राप्तम्