खलः सर्षपमात्राणि...

विकिसूक्तिः तः
(खलः सर्षपमात्रणि... इत्यस्मात् पुनर्निर्दिष्टम्)

सुभाषितम्

खलः सर्षपमात्राणि परिच्छिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥

khalaḥ sarṣapamātrāṇi paricchidrāṇi paśyati ।।
ātmano bilvamatrāṇi paśyannapi na paśyati ॥ ॥

पदच्छेदः

खलः, सर्षपमात्राणि, परिच्छिद्राणि, पश्यति, आत्मनः, बिल्वमात्राणि, पश्यन्, अपि, न, पश्यति।


तात्पर्यम्

दुर्जनः अन्येषां सर्षपमात्राणि अपि परिच्छिद्राणि पश्यति, परन्तु आत्मनः तु बिल्वमात्राणि अपि परिच्छिद्राणि सः न पश्यति।

"https://sa.wikiquote.org/w/index.php?title=खलः_सर्षपमात्राणि...&oldid=16096" इत्यस्माद् प्रतिप्राप्तम्