रामायणसूक्तयः (गुरुः)

विकिसूक्तिः तः
(गुरुः इत्यस्मात् पुनर्निर्दिष्टम्)

१. गोब्राह्मणहितार्थाय देशस्य च हिताय च ।

तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ (बालकाण्डः २६/५)

२. पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।

प्रज्ञां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते ॥ (अयोध्याकाण्डः १११/३)

३. पुरुषस्येह जातस्य भवन्ति गुरवः सदा ।

आचार्यश्चैव काकुत्स्थ पितामाता च राघवः ॥ (अयोध्याकाण्डः १११/२)

४. स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च ।

गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् ॥ (अयोध्याकाण्डः ३०/३६)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(गुरुः)&oldid=2931" इत्यस्माद् प्रतिप्राप्तम्