रामायणसूक्तयः (अपकीर्तिः)

विकिसूक्तिः तः
(ग्रन्थाः/अपकीर्तिः इत्यस्मात् पुनर्निर्दिष्टम्)

१. अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते । (उत्तरकाण्डः ४५/१३)

२. अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।

पतत्येवाधमाँल्लोकान् यावच्छब्दः प्रकीर्त्यते ॥ (उत्तरकाण्डः ४५/१२)

३. अप्यहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः ।

अपवादभयाद् भीतः किं पुनर्जनकात्मजाम् ॥ (उत्तरकाण्डः ४५/१४)

४. कः पुंमास्तु कुले जातः स्त्रियः परगृहोषिताम् ।

तेजस्वी पुनरादद्यात् सुहृल्लोभेन चेतसा ।। (युद्धकाण्डः ११५/१९)