कालिदाससूक्तयः (कुमारसम्भवम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

ब्रह्मा[सम्पाद्यताम्]

१. नमस्त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।

गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ कुमार० २।४

२. यदमोघमपान्तरुप्तं बीजमज! त्वया ।

अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ कु० २।५॥

३. तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।

प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ कु० २।६॥

४. स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।

प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ॥ कु० २।७॥

५. स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते ।

यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ कु० २।८॥

६. जगद्योनिरयोस्त्वं जगदन्तो निरन्तकः ।

जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ कु० २।९॥

७. आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।

आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ कु० २।१०॥

८. द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।

व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ कु० २।११॥

९. उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।

कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ कु० २।१२॥

१०. त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।

तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ कु० २।१३॥

११. त्वं पितॄणामपि पिता देवानामपि देवता ।

परतोऽपि परश्चासि विधाता वेधसामपि ॥ कु० २।१४॥

१२. त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः ।

वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परं ॥ कु० २।१५॥

१३. मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥ कु० २।१६॥

हिमालयः[सम्पाद्यताम्]

१. अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।

पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ कुमार० १।१॥

२. धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः ।

प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥ कुमार० ६।५१॥

३. मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ कुमार० ६।६६॥

पार्वती[सम्पाद्यताम्]

१. योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ कु० ६।१६॥ २. स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाऽप्यधृष्यम् ।

नालक्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात् ॥ कुमार० ३।५१॥

३. निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन ।

अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ कुमार० ३।५२॥

४. अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।

मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ति ॥ कुमार० ३।५३॥

५. आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।

पर्याप्तपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविनी लतेव ॥ कुमार० ३।५४॥

६. स्रस्तां नितम्बादवलम्बमाना पुनः पुनः केसरदामकाञ्चीम् ।

न्यासीकृतां स्थानविदा स्मरेण मौर्वीद्वितीयामिव कार्मकस्य ॥ कुमार० ३।५५॥

७. सुगन्धिनिश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।

प्रतिक्षणं सम्भ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ति ॥ कु० ३।५६॥

८. तां विक्ष्य सर्वावयवानवद्यां रेतरपि ह्रीपदमादधानाम् ।

जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनराशशंसे ॥ कु० ३।५७॥

९. भविष्यतः पत्युरुमापि शम्भोः समाससाद प्रतिहारभूमिम् ।

योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥ कु० ३।५८॥

१०. ततो भुजङ्गाधिपतेः फणाग्रैरधः कथञ्चिद्धृतभूमिभागः ।

शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥ कु० ३।५९॥

११. तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषा शैलसुतामुपेताम् ।

प्रवेशयामास च भर्तुरेनां भ्रूक्षेमात्रानुमतप्रवेशाम् ॥ कु० ३।६०॥

१२. तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य ।

व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ कु० ३।६१॥

१३. उमापि निलालकमध्यशोभि विस्नंसयन्ति नवकर्णिकारम् ।

चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ कु० ३।६२॥

१४. अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन ।

न हीश्वरव्याहृतयः कदाचित् पुष्पान्ति लोको विपरीतमर्थम् ॥ कु० ३।६३॥

१५. कामस्तु बाणावसरं प्रतीक्ष्य परङ्ग्वद्वह्निमुखं विविक्षुः ।

उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ कु० ३।६४॥

१६. अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।

विशेषितां भानुमतो मयूखैर्मन्दाकिनी पुष्करबीजमालाम् ॥ कु० ३।६५॥

१७. प्रतिग्रहितुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रे च ।

सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥ कुमार० ३।६६॥

१८. हरस्तु किञ्चित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।

उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ कुमार० ३।६७॥

१९. विवृण्वती शैलसुताऽपि भावमङ्गैझ् स्फुरद् बालकदम्बपुष्पैः ।

साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ कुमार०३।६८॥

२०. अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद् बलवन्निगृह्य ।

हेतुं स्वचेतोर्विकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ कुमार० ३।६९॥

२१. स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।

ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ कुमार० ३।७०॥

२२. तपः परामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।

स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किलनिष्पपात ॥ कु०३।७१॥

२३. क्रोधं प्रभो! संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।

तावत् स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ कुमार ३।७२॥

रतिविलापः[सम्पाद्यताम्]

१. अयि जीवितनाथ! जीवसीत्यभिधायोत्थितया तया पुरः ।

ददृशे पुरुषाकृतिं क्षितौ हरकोपानलभस्मकेवलम् ॥ कुमार० ४।३॥

२. अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी ।

विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥ कुमार० ४।४॥

३. उपमानमभूद् विलासिनां करणं यत्तव कान्तिमत्तया ।

तादिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥ कुमार० ४।५॥

४. क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।

नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः ॥ कुमार० ४।६॥

५. कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।

किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ कुमार० ४।७॥

६. स्मरसि स्मर! मेख्लागुणैरुत गोत्रस्खलितेषु बन्धनम् ।

च्युरकेशरदूषितेक्षणान्यवतंसोत्पलताडानानि वा ॥ कुमार० ४।८॥

७. हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।

उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ कुमार० ४।९॥

८. परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।

विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥ कुमार० ४।१०॥

९. रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।

वसतिं प्रिय! कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ॥ कुमार० ४।११॥

१०. अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।

विरुतैः करुणस्वनैरियं गुरुशोकानुरोदितीव माम् ॥ कुमार० ४।१५॥

११. शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।

सुरतानि च तानि ते रहः स्मर! संस्मृत्य न शान्तिरस्ति मे ॥ कुमार० ४।१७॥

१२. रचितं रतिपण्डित! त्वया स्वयमङ्गेषु ममेदमार्तवम् ।

ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ कुमार० ४।१८॥

१३. बिबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।

तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ कुमार० ४।१९॥

१४. अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।

चतुरैः सुरकामिनीजनैः प्रिय! यावन्न विलोभ्यसे दिवि ॥ कुमार० ४।२०॥

१५. मदनेन विना कृता रतिः क्षणमात्रं किल जीवितेति मे ।

वचनीयमिदं व्यवस्थितं रमण! त्वामनुयामि यद्यपि ॥ कुमार० ४।२१॥

१६. क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।

सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ कुमार० ४।२२॥

१७. ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।

मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ॥ कुमार० ४।२३॥

१८. क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः ।

न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥ कुमार० ४।२४॥

१९. अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवाहतः ।

रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत् पुरः ॥ कुमार० ४।२५॥

२०. तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च ।

स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ कुमार० ४।२६॥

२१. इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्तः! किं स्थितम् ।

तदिदं कणशो विकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥ कुमार० ४।२७॥

२२. अयि सम्प्रति देहि दर्शनं स्मर! पर्युत्सुक एष माधवः ।

दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ कुमार० ४।२८॥

२३. गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।

अहमस्य दशेव पश्य मामविषह्यव्यसनेन धूमिताम् ॥ कुमार० ४।३०॥

२४. विधिना कृतमर्धवैशसं ननु मां कामवधे विमुञ्चता ।

अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ कुमार० ४।३१॥

२५. तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।

विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् ॥ कुमार० ४।३२॥

२६. शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।

प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ कुमार० ४।३३॥

२७. अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।

नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ कुमार० ४।३४॥

२८. कुसुमास्तरणे सहायतां बहुशः सौम्य! गतस्त्वमावयोः ।

कुरु सम्प्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥ कुमार० ४।३५॥

२९. तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।

विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥ कुमार० ४।३६॥

३०. इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।

अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ कुमार० ४।३७॥

३१. परलोकविधौ च माधव! स्मरमुद्दिश्य विलोलपल्लवाः ।

निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥ कुमार० ४।३८॥

३२. इति देहविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।

शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पयत् ॥ कुमार० ४।३९॥

३३. कुसुमायुधपत्नि! दुर्लभस्तव भर्ता न चिराद् भविष्यति ।

श्रुणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥ कुमार० ४।४०॥

३४. अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत् प्रजापतिः ।

अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥ कुमार० ४।४१॥

३५. परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।

उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥ कुमार० ४।४२॥

३६. इति चाह स धर्मयाचितः स्मरशापान्तभवां सरस्वतीम् ।

अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ कुमार० ४।४३॥

३७. तदिदं परिरक्ष शॊभने! भवितव्यप्रियसङ्गमं वपुः ।

रविपीतजला तपाप्यये पुनरोघेन हि युज्यते नदी ॥ कुमार० ४।४४॥

३८. इत्थं रतेः किमपि भूतमदृश्यरूपम्-

मन्दीचकार मरणव्यवसायबुद्धिम् ।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेना-
माश्वासयत् सूचरितार्थपदैर्वचोभिः ॥ कुमार० ४।४५॥

३९. अथ मदनवधूरुपप्लवान्तं-

व्यसनकृशा परिपालयाम्बभूव ।
शशिन इव दिवातनस्य लेखा-
किरणपरिक्षयधूसरा प्रदोषम् ॥ कुमार० ४।४६॥

पार्वत्याः तपस्या[सम्पाद्यताम्]

१. अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।

प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरीशिखरं शिखण्डिमत् ॥ कुमार० ५।७॥

२. यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत् तदाननम् ।

न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ कुमार० ५।९॥

३. प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।

अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥ कुमार० ५।१०॥

४. कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ कुमार० ५।११॥

५. महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते ।

अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥ कुमार० ५।१२॥

६. पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।

लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ कुमार० ५।१३॥

७. कृताभिषेकां हुतजातवेदसं त्वमुत्तरासङ्गवतीं निवीतिनीम् ।

दिदृक्षवस्तां मुनयोऽभ्युपागमन् न धर्मवृद्धेषु वयः समीक्ष्यते ॥ कुमार० ५।१६॥

८. विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि ।

नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तच्च बभूव पावनम् ॥ कुमार० ५।१७॥

९. शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।

विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥ कुमार० ५।२०॥

१०. तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ ।

अपाङ्गयोः केवलमस्य दीर्घयोः शनैः शनैः श्यामिकया कृतं पदम् ॥ कुमार० ५।२१॥

११. अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः ।

बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ कुमार० ५।२२॥

१२. निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा ।

तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ कुमार० ५।२३॥

१३. शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ।

व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपः साक्ष्य इव स्थिताः क्षपाः ॥ कु० ५।२५॥

१४. निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा ।

परस्पराक्रन्दिनी चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥ कुमार० ५।२६॥

१५. मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना ।

तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिवाकरोदपाम् ॥ कुमार० ५।२७॥

१६. स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।

तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ कुमार० ५।२८॥

१७. मृणालिकाकोमलमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।

तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥ कुमार० ५।२९॥

ब्रह्मचारी-पार्वत्योः संवादः[सम्पाद्यताम्]

१. अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।

विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ कुमार० ५।३०॥

२. विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।

उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ कुमार० ५।३२॥

३. विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्च्युतैः ।

यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥ कुमार० ५।३७॥

४. कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।

अमृग्यमैश्वर्यसुखं नवं वयस्तपः फलं स्यात्किमतः परं वद ॥ कुमार० ५।४१॥

५. किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् ।

वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पये ॥ कुमार० ५।४४॥

६. निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।

न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ कुमार० ५।४६॥

७. मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।

शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ कु० ५।४८॥

८. कियच्चिरं श्राम्यसि गौरि! विद्यते ममापि पूर्वाश्रमसञ्चितं तपः ।

तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ कुमार० ५।५०॥

९. सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् ।

यदर्थमम्भोजमिवोष्णवारणं कृतं तपः साधनमेतया वपुः ॥ कुमार० ५।५२॥

१०. इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी ।

अरूपहार्यं मदनस्य निग्रहात् पिनाकपाणिं पतिमाप्तुमिच्छति ॥ कुमार० ५।५३॥

११. असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः ।

इमां हृदि व्यायतपातमक्षिणोद् विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ कुमार० ५।५४॥

१२. द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपः साक्षिषु दृष्टमेष्वपि ।

न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥ कुमार० ५।६०॥

१३. अगूढसद्भादमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।

अपीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥ कुमार० ५।६२॥

१४. यथा श्रुतं वेदविदां वर! त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः ।

तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ कुमार० ५।६४॥

१५. अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्त्तसे ।

अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥ कु० ५।६५॥

१६. अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।

करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ कुमार० ५।६६॥

१७. त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ।

वधूदुकूलं कलहसंलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ कुमार० ५।६७॥

१८. चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते ।

अलक्तकाङ्कानि पदानि पादयोएविकीर्णकेशासु परेतभूमिषु ॥ कुमार० ५।६८॥

१९. अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।

स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ कुमार० ५।६९॥

२०. इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया ।

विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ कुमार० ५।७०॥

२१. द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः ।

कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ कुमार० ५।७१॥

२२. वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।

वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ कुमार० ५।७२॥

२३. इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।

विकुञ्चितभ्रूलतमाहिते तथा विलोचने तिर्यगुपान्तलोहिते ॥ कुमार० ५।७४॥

२४. उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।

अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ कुमार० ५।७५॥

२५. विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।

जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥ कुमार०५।७६॥

२६. अकिञ्चनः सन् प्रभवः स सम्पदां त्रिलोकनाथः पितृसद्मगोचरः ।

स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥ कुमार० ५।७७॥

२७. विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।

कपालि वा स्यादथवेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ कुमार० ५।७८॥

२८. तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्म रजो विशुद्धये ।

तथाहि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ॥ कुमार० ५।७९॥

२९. असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नचिग्वारणवाहनो वृषा ।

करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥ कुमार० ५।८०॥

३०. विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।

यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ कुमार० ५।८१॥

३१. अलं विवादेन यथाश्रुतस्त्वया तथाविधस्तावदशेषमस्तु वः ।

ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ कुमार० ५।८२॥

३२. निवार्यतामालिः! किमप्ययं वटुः पुनर्विवक्षु स्फुरितोत्तराधरः ।

न केवलं यो महतोऽपभाषते श्रुणोति तस्मादपि यः स पापभाक् ॥ कुमार० ५।८३॥

३३. इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।

स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥ कुमार० ५।८४॥

३४. तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि-

र्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः,
शैलाधिराजतनया न ययौ न तस्थौ ॥ कु० ५।८५॥

३५. अद्य प्रभृत्यवनताङ्गि! तवास्मि दासः,

क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय सा नियमजं क्लमुत्ससर्ज,
क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ कु० ५।८६॥

बाललीला[सम्पाद्यताम्]

१. ततः कुमारः समुदां निदानैः स बाललीलाचरितैर्विचित्रैः ।

गिरीशागौर्योर्हृदयं जहार मुदे न हृद्या किमु बालकेलिः ॥ कुमार० ११।४०॥

२. क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः ।

बालः स लीला चलनप्रयोगैस्तयोर्मुदं वर्धयति स्म पित्रोः ॥ कुमार० ११।४२॥

३. अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गणक्रीडनधूलिधूम्रः ।

मुहुर्वदन् किञ्चिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ कुमार० ११।४३॥

४. इत्थं शिशोः शैशवकेलिवृत्तैर्मनोऽभिरामैर्गिरिजागिरीशौ ।

मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥ कुमार० ११।४९॥