कालिदाससूक्तयः (मेघदूतम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

अलकानगरी[सम्पाद्यताम्]

१. हस्ते लीलाकमलमलके बालकुन्दानुविद्धम्,

नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषम्,
सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ उत्तरमेघ २॥

२. यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा,

हंसश्रेणिरचितरशना नित्यपद्मा नलिन्यः ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा,
नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ उ० मे० ३॥

३. आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै-

र्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यन्यस्मात् प्रणयकलहाद्विप्रयोगोपपत्ति-
र्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ उ० मे० ४॥

४. यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि,

ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधुरतिफलं कल्पवृक्षप्रसूतम्,
त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ उ० मे० ५॥

५. नीविबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणाम्,

क्षौमं रागाद् निभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान्,
ह्रिमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ उ० मे० ७॥

६. यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छ्वासितानाम्,

अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदैश् चन्द्रपादैर्निशीथे,
व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ उ० मे० ९॥

७. गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः

पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ उ० मे० ११॥

यक्षगृहम्[सम्पाद्यताम्]

१. तत्रागारं धनपतिगृहानुत्तरेणास्मदीयम्,

दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तयावर्द्धितो मे
हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ उ० मे० १५॥

२. वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा,

हैमैश्च्छन्नाविकचकमलैः स्निग्धवैदूर्यनालैः ।
यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं
नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ उ० मे० १६॥

३. तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः,

क्रीडाशैलः कनककदली वेष्टनप्रेक्षणीयः ।
मद्गोहिन्याः प्रिय इति सखे! चेतसा कातरेण,
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ उ० मे०१७॥

४. रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः,

प्रत्यासन्नौ कुरबकवृतेर्माधवी मण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी,
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ उ० मे० १८॥

५. तन्मध्ये च स्फटिकफलका काञ्चनीवासयष्टि-

र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालौः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे,
या मध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ उ० मे० १९॥

६. एभिः साधो! हृदयनिहितैर्लक्षणैर्लक्षयेथा,

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनम्,
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ उ० मे० २०॥

विरहिणी-यक्षिणी[सम्पाद्यताम्]

१. तां चावश्यं दिवसगणनातत्परामेकपत्नीम्,

अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम्,
सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ पूर्व० मे० ९॥

२. तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी,

मध्ये क्षामा चकितहरिणी प्रेक्षणा निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम्,
या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ उ० मे० २२॥

३. तां जानीथाः परिमितकथां जीवितं मे द्वितीयम्,

दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालाम्,
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ उ० मे० २३॥

४. नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया,

निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्तिलम्बालकत्वाद्,
इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ उ० मे० २४॥

५. आलोके ते निपतति पुरा सा बलिव्याकुला वा,

मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थाम्,
कच्चिद् भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ उ० मे० २५॥

६. उत्सङ्गे वा मलिनवसने सौम्य! निक्षिप्य वीणाम्,

मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथञ्चिद्,
भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ उ० मे० २६॥

७. शेषन्मासान् विरहदिवसस्थापितस्यावधेर्वा,

विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती,
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ उ० मे० २७॥

८. सव्यापारामहनि न तथा पीडयेन्मद्वियोगः,

शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे,
तामुन्निद्रामवनिशयनां सौधावातायनस्थः ॥ उ० मे० २८॥

९. आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वाम्,

प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या,
तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ उ० मे० ३१॥

१०. पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान्,

पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव ।
चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीम्,
साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ उ० मे० ३२॥

११. निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीम्,

शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
मत्सम्भोगः कथमुपनयेत्स्वप्नजोऽपीति निद्रा-
माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ उ० मे० ३३॥

१२. आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा,

शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शक्लिष्टामयमितनखेनासकृत् सारयन्तीम्,
गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥ उ० मे० ३४॥

१३. सा संन्यस्ताभरणमबला पेशलं धारयन्ती,

शय्योत्सङ्गे निहितमसकृद्दुःखेन गात्रम् ।
त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यम्,
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ उ० मे० ३५॥

१४. जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्माद्,

इत्थम्भूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगम्मन्यभावः करोति,
प्रत्यक्षं ते निखिलमचिराद् भ्रातुरुक्तं मया यत् ॥ उ० मे० ३६॥

१५. रुद्धापाङ्गप्रसरमलकैर् अञ्जनस्नेहशून्यम्,

प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या,
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥

१६. वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-

र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
सम्भोगान्ते मम समुचितो हस्तसंवाहनानां
यास्यत्यूरुः सरसकदलीस्तम्भ गौरश्चलत्वम् ॥ उ० मे० ३८ ॥

१७. तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्याद-

न्यास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
माभूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चित्,
सद्यः कण्ठच्युतभुजलताग्रन्थिगाढोपगूढम् ॥ उ० मे० ३९ ॥

यक्षसन्देशः[सम्पाद्यताम्]

१. भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहम्,

तत्सन्देशैर्हृदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम्,
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ उ० मे० ४१ ॥

२. इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा,

त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैवम् ।
श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनाम्,
कान्तोदन्तः सुहृदुपनतः सङ्गमात्किञ्चिदूनः ॥ उ० मे० ४२ ॥

३. तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुम्,

ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमबले! पृच्छति त्वां वियुक्तः,
पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ उ० मे० ४३ ॥

४. अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तम्,

सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती,
सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ उ० मे० ४४ ॥

५. शब्दाख्येयं यदपि किल ते यः सखीनाम्,

पुरस्तात्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट-
स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥

६. श्यामास्वङ्गचकितहरिणीप्रेक्षणे दृष्टिपातम्,

वक्त्रच्छायां शशिनि शिखनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्,
हन्तैकस्मिन् क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ उ० मे० ४६ ॥

७. त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-

मात्मानं ते चरणपतितं यावदिच्छामि कर्त्तुम् ।
अस्रैस्तावन्मुहरुपचितैर्दृष्टिरालुप्यते मे क्रूर्-
स्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ उ० मे० ४७ ॥

८. मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-

र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ उ० मे० ४९ ॥

९. भित्त्वा सद्यः किसलयपुटान् देवदारुमाणाम्,

ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः,
पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ उ० मे० ५० ॥

१०. सङ्क्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा,

सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने! दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ उ० मे० ५१ ॥

११. नन्वान्मानं बहु विगणयन्नात्मनैवावलम्बे,

तत्कल्याणि! त्वमापि नितरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा,
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ उ० मे० ५२ ॥

१२. शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ,

शेषान् मासान् गमय चतुरो लोचने मिलयित्वा ।
पश्चादावां विरहगुणितं तं तमाभिलाषम्,
निर्वेष्यावः परिणतशरद्दन्द्रिकासु क्षपासु ॥ उ० मे० ५३ ॥