मौक्तिकानि (यकारतः हकारः)

विकिसूक्तिः तः
Jump to navigation Jump to search

अन्तर्विषयाः

यत्नः[सम्पाद्यताम्]

आरोप्यते शिला शैले यत्नेन महता यथा
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ १७५ ॥ हितोपदेशम्.

यथोचितकार्यम्[सम्पाद्यताम्]

तावद् भयस्य भेतव्यं यावद् भयमनागतम्
आगतं च भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ १७६ ॥ हितोपदेशम्.

युक्तवचनम्[सम्पाद्यताम्]

बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः
रवेरविषये किं प्रदीपस्य प्रकाशनम् ॥ १७७ ॥ हितोपदेशम्.

योग्यता[सम्पाद्यताम्]

 
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरप्टा नारी च
पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याप्ता ॥ १७८ ॥ हितोपदेशम्.

यस्यास्ति सर्वत्र गतिः स कस्मात् स्वदेशरागेण हि याति नाशम्
तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति ॥ १७९ ॥ पञ्चतन्त्रम्.

लक्ष्मीः[सम्पाद्यताम्]

आरम्भन्तस्स धुअं लच्छी मरणं वि होइ पुरिसस्स
तं मरणमणारम्भे वि होइ लच्छी उण ण होइ ॥ १८०॥
(आरभमाणस्य ध्रुवं लक्ष्मीर्मरणमपि भवति पुरुषस्य ।
तन्मरणमनारम्भेऽपि भवति लक्ष्मीः पुनर्न भवति ॥) गाथासप्तसती -शतक-गाथा.

लोकरीतिः[सम्पाद्यताम्]

लोकयात्रा नयो लज्जा दाक्षिण्यं त्यागशीलता
पञ्च यत्र न विध्यन्ते न तत्र दिवसं वसेत् ॥ १८१ ॥ हितोपदेशम्.

लोकोत्तरः[सम्पाद्यताम्]

वज्रादपि कद्भोराणि मृदूनि कुसुमादपि
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ १८२ ॥ उत्तररामचरितम्

वर्जनीयम्[सम्पाद्यताम्]

अप्रियं पुरुषं चापि परद्रोहं परस्त्रियम्
अधर्ममनृतं चैव दूरात् प्राज्ञो विवर्जयेत् ॥ १८३ ॥ समयोचितपध्यमालिका

व्यवहारज्ञता[सम्पाद्यताम्]

मुब्धमर्थेन गृह्णीयात् स्तब्धमञ्जलिकर्मणा
मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ १८४ ॥ हितोपदेशम्.

वासस्थानम्[सम्पाद्यताम्]

उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेषवसक्तम्
शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं मार्गति वासहेतोः ॥ १८५ ॥ पञ्चतन्त्रम्.

वित्तबलम्[सम्पाद्यताम्]

यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ १८६ ॥ भर्तृहरिशतकत्रयम्.

वित्तवान्[सम्पाद्यताम्]

यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि
भक्ष्यते सलिले नक्रैस्तथा सर्वत्र वित्तवान् ॥ १८७ ॥ हितोपदेशम्.

विद्याद्रविणार्जनम्[सम्पाद्यताम्]

क्षणशः कणशप्टैव विद्यामर्थं च साधयेत्
क्षणत्यागे कुतो विद्या कणत्यागे दुतो धनम् ॥ १८८ ॥ समयोचितपध्यमालिका

विद्यावान्[सम्पाद्यताम्]

 
अन्या जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना रचनावलीनाम्
लोकोत्तरा च क्रुतिराकृतिरार्तहृध्या विद्यावतां सकलमेव गिरां दवीयः ॥ १८९ ॥

विधिः[सम्पाद्यताम्]

अलिरनुसरति परिमलं लक्ष्मीरनुसरति नयगुणसमृद्धिम्
निम्नमनुसरति सलिलं विधिलिखितं बुद्धिरनुसरति ॥ १९० ॥ सुभषितरत्नभाण्डागारम्. १७०.७५०

यदभावि न तद् भावि चेन्न तदन्यथा[सम्पाद्यताम्]

इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥ १९१ ॥ हितोपदेशम्. प्र.३०

विपत्तिः[सम्पाद्यताम्]

यथैव पुष्पं प्रथमे विकासे समेत्य पातुं मधुपाः पतन्ति
एवं मनुष्यस्य विपत्तिकाले छिद्रेष्वनर्था बहुलीभवन्ति ॥ १९२ ॥ मृच्छकटिकम्. ९.२६

विभवः[सम्पाद्यताम्]

यो न ददाति न भुप्टे सति विभवे नैव तस्य तद् द्रव्यम्
तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे ॥ १९३ ॥ सुभषितरत्नभाण्डागारम्. ६९.१६

विरलाः[सम्पाद्यताम्]

विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धनस्नेहम्
विरला रणेषु धीराः परदुःखेनापि दुःखिता विरलाः ॥ १९४ ॥ समयोचितपध्यमालिका ४४.२

विवेकः[सम्पाद्यताम्]

यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः
स न जानति शास्त्रार्थान् दर्वी पाकर्सानिव ॥ १९५ ॥ समयोचितपध्यमालिका ३३.८

नानृतान् पातकं किञ्चित् न सत्यात् सुकृतं परम्
विवेकान्न परो बन्धुरिति वेदविदो विदुः ॥ १९६ ॥ समयोचितपध्यमालिका ४२.५९

विषम्[सम्पाद्यताम्]

 
अनभ्यासे विषं विद्या ह्यजीर्णे भोजनं विषम्
विषं सभा दरिद्रस्य वृद्धस्य तरुणी विषम् ॥१९७ ॥ हितोपदेशम्. प्र.२३

विस्मयः[सम्पाद्यताम्]

माने तपसि शौर्ये वा विज्ञाने विनये नये
विस्मयो नहि कर्तव्यो नानारत्ना वसुन्धरा ॥ १९८ ॥ समयोचितपध्यमालिका ४१.६०

शक्तिः[सम्पाद्यताम्]

 
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते
निवसन्नन्तर्दाजुणि लङ्घयो वह्निर्न तु ज्वलितः १९९ पञ्चतन्त्रम्. १.३२

शत्रुः[सम्पाद्यताम्]

ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी
अबिनीता रिपुर्भार्या पुत्रः शत्रुरपण्डितः २०० चाणक्य ४५

शरणागतरक्षणम्[सम्पाद्यताम्]

त्यजति किल तं जयश्रीर्जहति च मित्राणि बन्धुवर्गप्टा
भवति च सदोपहास्यो यः खलु शरणागतं त्यजति २०१ मृच्छकटिकम्. ६.१८

शूलाद्यो ध्रुमः[सम्पाद्यताम्]

छायासुप्तमृगः शकुन्तनिवहैर्विष्वग्विलुप्तच्छदः
कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः
विश्रब्धं मधुपैर्निपीतकुसुमः शूलाद्यः स एव द्रुमः
सर्वाङगैर्बहुसत्त्वसङ्गसुखदो भूभारभूतोऽपरः ॥ २०२ ॥ पञ्चतन्त्रम्. २.२

शान्तः[सम्पाद्यताम्]

पूर्वे वयसि यः शान्तः स शान्त इति मे मतिः
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ २०३ ॥ पञ्चतन्त्रम्. १.१७६

श्रेष्ठः[सम्पाद्यताम्]

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २०४ ॥ समयोचितपध्यमालिका. ५७.१८

षट्सुखानि[सम्पाद्यताम्]

अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च
वश्यप्टा पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुल्हानि राजन् ॥ २०५ ॥ हितोपदेशम्. प्र. २०

सज्जनः[सम्पाद्यताम्]

आदौ चित्ते ततः काये सतां सम्पाद्यते जरा
असतां तु पुनः काये नैव चित्ते कदाचन ॥ २०६ ॥ पञ्चतन्त्रम्. १.१७७

तृणानि भूमिरुदकं वाक् चतुर्थी च सुनृता
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ २०७ ॥ हितोपदेशम्. १.६०

नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तः
स्वार्थान् संपादयन्तो चिततपृथुतरारम्भयत्नाः परार्थे
क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान् दुर्जनान् दुःखयन्तः
सन्तः साप्टार्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ २०८ ॥ भर्तृहरिशतकत्रयम्. १.६०

नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः
अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ २०९ ॥ हितोपदेशम्. १.९४

मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रि -
भुवनमुपकारश्रेणिभिः प्रीणयन्तः
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहदि विकासन्तः सन्ति सन्तः कियन्तः ॥ २१० ॥ भर्तृहरिशतकत्रयम्. १.७०

पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः
नादन्ति सस्यं खलु वारिवाहाः परोपकराय सतां विभूतयः ॥ २११ ॥ समयोचितपध्यमालिका. ४६.२३

सुअणो जं देसमलंकरेइ त विअ करेइ पवसन्तो
गामासण्णुम्मूलिअमहावडट्ठाणसारिच्छम्
(सुजनो यंदेशमकरोति तमेव करोति प्रवसन्
ग्रामासन्नोन्मूलितमहावटस्थान्सदृक्षम्॥) गाथासप्तसती -शतक-गाथा १.९४

सुअणो ण कुप्पइ व्विअ अह कुप्पइ विण्णिअं ण चिन्तेइ
अह चिन्तेइ ण जम्पइ अह् लज्जीओ होइ २१३
(सुजनो न कुप्यत्येव अथ कुप्यति विप्रियं न चिन्तयति
अथ चिन्तयति न जल्पति अथ लज्जितो भवति ॥) गाथासप्तसती -शतक-गाथा ३.५०१

सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ २१४ ॥ सुभषितरत्नभाण्डागारम्. ३८.२४२

सुहृदां हितकामानां यः शृणोति न ब् हाषितम्
विपत् संनिहिता तस्य स नरः शत्रुनन्दनः ॥ २१५ ॥ हितोपदेशम्. १.७४

सज्जनः-दुर्जनः[सम्पाद्यताम्]

विण्णाणगुणमहग्घे पुरिसे वेसत्तणं पि रमणिज्जम्
जणणिन्दिए उण जणे पिअत्तणेणावि लज्जामो ॥ २१७ ॥
(विज्ञानगुणमहार्घे पुरुषे द्वेष्यत्वमपि रमणीयम्
जननिन्दिते पुनर्जने प्रियत्वेनापि लज्जामहे ॥) गाथासप्तसती -शतक-गाथा ३.६८

सज्जनः-मूढः[सम्पाद्यताम्]

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्यनेयबुद्धिः ॥ २१८ ॥ मालविकाग्रिमित्रम् १.२

सत्कारधनः-सज्जनः[सम्पाद्यताम्]

शक्कालधणे वखु शज्जणे काह ण होइ चलाचले धणे
जे पूइदुं पि ण आणादि शे पूआविशेशंपि आणादि ॥ २१९ ॥
(सत्कारधनः खलु सज्जनः कस्य न ब् हवति चलाचलं धनम्
यः पूजयितुमपि न जानाति स पूजाविशेषमपि जानाति ॥) मृच्छकटिकम्. २.१५

सत्सङ्गः[सम्पाद्यताम्]

काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम्
तथा सत्सन्निधानेन मुर्खो याति प्रवीणताम् ॥ २२० ॥ हितोपदेशम्. प्र. ४२

सन्मित्रम्[सम्पाद्यताम्]

कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी
अविचार्य प्रियं कुर्यात् तन्मित्रं मित्रमुच्यते ॥ २२१ ॥ सुभषितरत्नभाण्डागारम्. ८८.१

स्नेहः[सम्पाद्यताम्]

स्नेहो हि वरमघटितो न वरं सञ्जातविघटितस्नेहः
हृतनयनो हि विषादी न विषादी भवति जात्यन्धः ॥ २२२ ॥ सुभषितरत्नभाण्डागारम्. १७१. ७८९

समदर्शिनः[सम्पाद्यताम्]

विद्याविनयसम्पन्ने ब्राह्मण्दे गवि हस्तिनि
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २२३ ॥ भगवद् गीता ५.२८

सम्बन्धः[सम्पाद्यताम्]

यावन्तः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान्
तावन्तोऽपि निखन्यन्ते हृदये शूकशङ्कवः ॥ २२४ ॥ हितोपदेशम्. ४.७२

सहनौ भुनक्तु[सम्पाद्यताम्]

 
एकः स्वादु न भुञ्जीत नैकः सुप्तेषु जागृयात्
एको न गच्छेदध्वानं नैकप्टार्थान् प्रचिन्तयेत् ॥ २२५ ॥ पञ्चतन्त्रम्. ५.९५

सात्त्विकं सुखम्[सम्पाद्यताम्]

यत् तदग्रे विषमिव परिणामेऽमृतोपम्
तत् कुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ २२६ ॥ भगवद् गीता १८.३७

सुखम्-दुःखम्[सम्पाद्यताम्]

 
सर्वं परवशं दुःखं सर्वमात्म वशं सुखम्
एतद् वेद्यात् समासेन लक्षणं सुखदुःखयोः ॥ २२७ ॥ समयोचितपध्यमालिका. ७५.६२
  
यथा प्ररोहन्ति तृणान्ययत्नतः क्षीतौ प्रयत्नात्तु भवन्ति शालयः
तथैव दुःखानि भवन्त्ययत्नतः सुखानि यत्नेन भवन्ति वा न वा ॥ २२८ ॥ सौन्दरनन्दरनम्. १.३१

सुगुणः[सम्पाद्यताम्]

गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम्
विक्रीयन्ते न घण्टाभिर्गावः क्शीरविवर्जिताः ॥ २२९ ॥ सुभषितरत्नभाण्डागारम्. ८१.१२

सुजनः[सम्पाद्यताम्]

अप्रियवचनदरिद्रैः प्रियवचनाढयैः स्वदारपरितुष्टैः
परपरिवादनिवृत्तैः क्कचित्क्कचिन्मण्डिता वसुधा ॥ २३० ॥ सुभषितरत्नभाण्डागारम्. ४७.९१

सुजनः-दुर्जनः[सम्पाद्यताम्]

मृप्टट इव सुखभेद्यो दुःसन्धानप्टा दुर्जनो भवति
सुजनस्तु कनकघटवद् दुर्भेद्यप्टाशुसन्धेयः ॥ २३१ ॥ पञ्चतन्त्रम्. २.३८

सुभाषितम्[सम्पाद्यताम्]

बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः
अबोधोपहताप्टान्ये जीर्णमङ्ग सुभाषितम् ॥ २३२ ॥ भर्तृहरिशतकत्रयम्. १.१

सेवकः[सम्पाद्यताम्]

उन्नत्यै नमति प्रभुं प्रभुगृहान् द्रषटं बहिस्तिष्ठति
स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया
प्राणान् प्राणितुमेव मुञ्चति रणे क्लिन्नाति भोगेच्छया
सर्वं तद्विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ॥ २३३ ॥ अलंकार सर्वस्वम्. पृ.१६९

उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्
तं जनमसत्यसन्धं भगवति वसुधे कथं वहसि ॥ २३४ ॥ हितोपदेशम्. १.७९

सुवर्णपुष्पितां पृथ्वीं चिन्वन्ति पुरुषास्त्रयः
शूरप्टा कृतविद्यप्टा यप्टा जानाति सेवितुम् ॥ २३५ ॥ पञ्चतन्त्रम्. १.४६

संयमः[सम्पाद्यताम्]

हत्थशंजदे मुहशंजदे इन्दियशंजदे शे क्खु माणुशे
किं कलोदि लाअउले तश्श् पललोए हत्थे णिच्चले ॥ २३६ ॥
(हस्तसंयतो मुखसंयत इन्द्रियसंयतः स खलु मनुष्यः
किं करोति राजकुलं तस्य परलोको हस्ते निश्चलः ॥) मृच्छकटिकम्. ८.४७

संशयः[सम्पाद्यताम्]

 
न संशयमनारुह्य नरो भद्राणि पश्यति
संशय पुनरारुह्य यदि जीवति पश्यति ॥ २३७ ॥ हितोपदेशम्. १.७

स्वर्गं-यशः[सम्पाद्यताम्]

हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ २३८ ॥ कर्णभारम्

स्वाभाविकदोषः[सम्पाद्यताम्]

शश्शपलक्कबलद्दे ण शक्कि वालिदुं अण्णपशत्तकलत्ते ण शक्कि वालिदुम्
जूदपशत्तमणुस्से ण शक्कि वालिदुं जे वि शहाविअदोशे ण शक्कि वालिदुम्
(सस्यलम्पटबलीवर्दो न शक्यो वारयितुमन्यप्रसक्तकलत्रं न शक्यं वारयितुम्
धूतप्रसक्त मनूष्यो न शक्यो वारयितुं योऽपि स्वाभाविकदोषो न शक्यो वारयितुम्॥) मृच्छकटिकम्. ३.२

स्वामी[सम्पाद्यताम्]

 
सुअणे क्खु भिच्चाणुकम्पके शामिए णिद्धणके वि शोहदे
पिशुणे उण दव्वगाव्विदे दुलक्के क्खु पलिणामदालुणे ॥ २४० ॥
(सृजनः खलु भृत्यानुकम्पकः स्वामी निर्धनकोऽपि शोभते
पुशुनः पुनर्द्रव्यगर्वितो दुष्करः खलु परिणामदारुणः ॥) मृच्छकटिकम्. ३.१

हृदयज्ञः[सम्पाद्यताम्]

 
हिअअण्णएहिं समअं असमताइं पि जह सुहावन्ति
कज्जाइँ मणै ण तहा इअरेहिं समाविआइं पि ॥ २४१ ॥
(हृदयज्ञैः सममसमाप्तान्यपि यथा सुखयन्ति
कार्याणि मन्ये न तथा इतरैः समापितान्यपि ॥) गाथासप्तसती -शतक-गाथा १.६२