रामायणसूक्तयः (चरित्रम्)
दिखावट
(चरित्रम् इत्यस्मात् पुनर्निर्दिष्टम्)
१. कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।
- चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥ (अयोध्याकाण्डः १०९/४)
२. निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।
- मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ (अयोध्याकाण्डः १०९/३)